भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.086

1.086.01

मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
स सुगोपातमो जनः ॥

1.086.02

यज्ञैर् वा यज्ञवाहसो विप्रस्य वा मतीनाम् ।
मरुतः शृणुता हवम् ॥

1.086.03

उत वा यस्य वाजिनो ऽनु विप्रम् अतक्षत ।
स गन्ता गोमति व्रजे ॥

1.086.04

अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु ।
उक्थम् मदश् च शस्यते ॥

1.086.05

अस्य श्रोषन्त्व् आ भुवो विश्वा यश् चर्षणीर् अभि ।
सूरं चित् सस्रुषीर् इषः ॥

1.086.06

पूर्वीभिर् हि ददाशिम शरद्भिर् मरुतो वयम् ।
अवोभिश् चर्षणीनाम् ॥

1.086.07

सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः ।
यस्य प्रयांसि पर्षथ ॥

1.086.08

शशमानस्य वा नरः स्वेदस्य सत्यशवसः ।
विदा कामस्य वेनतः ॥

1.086.09

यूयं तत् सत्यशवस आविष् कर्त महित्वना ।
विध्यता विद्युता रक्षः ॥

1.086.10

गूहता गुह्यं तमो वि यात विश्वम् अत्रिणम् ।
ज्योतिष् कर्ता यद् उश्मसि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc