भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.085

1.085.01

प्र ये शुम्भन्ते जनयो न सप्तयो यामन् रुद्रस्य सूनवः सुदंससः ।
रोदसी हि मरुतश् चक्रिरे वृधे मदन्ति वीरा विदथेषु घृष्वयः ॥

1.085.02

त उक्षितासो महिमानम् आशत दिवि रुद्रासो अधि चक्रिरे सदः ।
अर्चन्तो अर्कं जनयन्त इन्द्रियम् अधि श्रियो दधिरे पृश्निमातरः ॥

1.085.03

गोमातरो यच् छुभयन्ते अञ्जिभिस् तनूषु शुभ्रा दधिरे विरुक्मतः ।
बाधन्ते विश्वम् अभिमातिनम् अप वर्त्मान्य् एषाम् अनु रीयते घृतम् ॥

1.085.04

वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युता चिद् ओजसा ।
मनोजुवो यन् मरुतो रथेष्व् आ वृषव्रातासः पृषतीर् अयुग्ध्वम् ॥

1.085.05

प्र यद् रथेषु पृषतीर् अयुग्ध्वं वाजे अद्रिम् मरुतो रंहयन्तः ।
उतारुषस्य वि ष्यन्ति धाराश् चर्मेवोदभिर् व्य् उन्दन्ति भूम ॥

1.085.06

आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः ।
सीदता बर्हिर् उरु वः सदस् कृतम् मादयध्वम् मरुतो मध्वो अन्धसः ॥

1.085.07

ते ऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुर् उरु चक्रिरे सदः ।
विष्णुर् यद् धावद् वृषणम् मदच्युतं वयो न सीदन्न् अधि बर्हिषि प्रिये ॥

1.085.08

शूरा इवेद् युयुधयो न जग्मयः श्रवस्यवो न पृतनासु येतिरे ।
भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव त्वेषसंदृशो नरः ॥

1.085.09

त्वष्टा यद् वज्रं सुकृतं हिरण्ययं सहस्रभृष्टिं स्वपा अवर्तयत् ।
धत्त इन्द्रो नर्य् अपांसि कर्तवे ऽहन् वृत्रं निर् अपाम् औब्जद् अर्णवम् ॥

1.085.10

ऊर्ध्वं नुनुद्रे ऽवतं त ओजसा दादृहाणं चिद् बिभिदुर् वि पर्वतम् ।
धमन्तो वाणम् मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे ॥

1.085.11

जिह्मं नुनुद्रे ऽवतं तया दिशासिञ्चन्न् उत्सं गोतमाय तृष्णजे ।
आ गच्छन्तीम् अवसा चित्रभानवः कामं विप्रस्य तर्पयन्त धामभिः ॥

1.085.12

या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि ।
अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc