ऋग्वेद · अध्याय 1.084
असावि सोम इन्द्र ते शविष्ठ धृष्णव् आ गहि ।
आ त्वा पृणक्त्व् इन्द्रियं रजः सूर्यो न रश्मिभिः ॥
इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् ।
ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम् ॥
आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी ।
अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ॥
इमम् इन्द्र सुतम् पिब ज्येष्ठम् अमर्त्यम् मदम् ।
शुक्रस्य त्वाभ्य् अक्षरन् धारा ऋतस्य सादने ॥
इन्द्राय नूनम् अर्चतोक्थानि च ब्रवीतन ।
सुता अमत्सुर् इन्दवो ज्येष्ठं नमस्यता सहः ॥
नकिष् ट्वद् रथीतरो हरी यद् इन्द्र यच्छसे ।
नकिष् ट्वानु मज्मना नकिः स्वश्व आनशे ॥
य एक इद् विदयते वसु मर्ताय दाशुषे ।
ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥
कदा मर्तम् अराधसम् पदा क्षुम्पम् इव स्फुरत् ।
कदा नः शुश्रवद् गिर इन्द्रो अङ्ग ॥
यश् चिद् धि त्वा बहुभ्य आ सुतावाँ आविवासति ।
उग्रं तत् पत्यते शव इन्द्रो अङ्ग ॥
स्वादोर् इत्था विषूवतो मध्वः पिबन्ति गौर्यः ।
या इन्द्रेण सयावरीर् वृष्णा मदन्ति शोभसे वस्वीर् अनु स्वराज्यम् ॥
ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।
प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर् अनु स्वराज्यम् ॥
ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।
व्रतान्य् अस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर् अनु स्वराज्यम् ॥
इन्द्रो दधीचो अस्थभिर् वृत्राण्य् अप्रतिष्कुतः ।
जघान नवतीर् नव ॥
इच्छन्न् अश्वस्य यच् छिरः पर्वतेष्व् अपश्रितम् ।
तद् विदच् छर्यणावति ॥
अत्राह गोर् अमन्वत नाम त्वष्टुर् अपीच्यम् ।
इत्था चन्द्रमसो गृहे ॥
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।
आसन्निषून् हृत्स्वसो मयोभून् य एषाम् भृत्याम् ऋणधत् स जीवात् ॥
क ईषते तुज्यते को बिभाय को मंसते सन्तम् इन्द्रं को अन्ति ।
कस् तोकाय क इभायोत राये ऽधि ब्रवत् तन्वे3 को जनाय ॥
को अग्निम् ईट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर् ध्रुवेभिः ।
कस्मै देवा आ वहान् आशु होम को मंसते वीतिहोत्रः सुदेवः ॥
त्वम् अङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् ।
न त्वद् अन्यो मघवन्न् अस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥
मा ते राधांसि मा त ऊतयो वसो ऽस्मान् कदा चना दभन् ।
विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0