ऋग्वेद · अध्याय 1.083
अश्वावति प्रथमो गोषु गच्छति सुप्रावीर् इन्द्र मर्त्यस् तवोतिभिः ।
तम् इत् पृणक्षि वसुना भवीयसा सिन्धुम् आपो यथाभितो विचेतसः ॥
आपो न देवीर् उप यन्ति होत्रियम् अवः पश्यन्ति विततं यथा रजः ।
प्राचैर् देवासः प्र णयन्ति देवयुम् ब्रह्मप्रियं जोषयन्ते वरा इव ॥
अधि द्वयोर् अदधा उक्थ्य1ं वचो यतस्रुचा मिथुना या सपर्यतः ।
असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर् यजमानाय सुन्वते ॥
आद् अङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया ।
सर्वम् पणेः सम् अविन्दन्त भोजनम् अश्वावन्तं गोमन्तम् आ पशुं नरः ॥
यज्ञैर् अथर्वा प्रथमः पथस् तते ततः सूर्यो व्रतपा वेन आजनि ।
आ गा आजद् उशना काव्यः सचा यमस्य जातम् अमृतं यजामहे ॥
बर्हिर् वा यत् स्वपत्याय वृज्यते ऽर्को वा श्लोकम् आघोषते दिवि ।
ग्रावा यत्र वदति कारुर् उक्थ्य1स् तस्येद् इन्द्रो अभिपित्वेषु रण्यति ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0