ऋग्वेद · अध्याय 1.082
उपो षु शृणुही गिरो मघवन् मातथा इव ।
यदा नः सूनृतावतः कर आद् अर्थयास इद् योजा न्व् इन्द्र ते हरी ॥
अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्व् इन्द्र ते हरी ॥
सुसंदृशं त्वा वयम् मघवन् वन्दिषीमहि ।
प्र नूनम् पूर्णवन्धुरः स्तुतो याहि वशाँ अनु योजा न्व् इन्द्र ते हरी ॥
स घा तं वृषणं रथम् अधि तिष्ठाति गोविदम् ।
यः पात्रं हारियोजनम् पूर्णम् इन्द्र चिकेतति योजा न्व् इन्द्र ते हरी ॥
युक्तस् ते अस्तु दक्षिण उत सव्यः शतक्रतो ।
तेन जायाम् उप प्रियाम् मन्दानो याह्य् अन्धसो योजा न्व् इन्द्र ते हरी ॥
युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः ।
उत् त्वा सुतासो रभसा अमन्दिषुः पूषण्वान् वज्रिन् सम् उ पत्न्यामदः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0