ऋग्वेद · अध्याय 1.074
उपप्रयन्तो अध्वरम् मन्त्रं वोचेमाग्नये ।
आरे अस्मे च शृण्वते ॥
यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु ।
अरक्षद् दाशुषे गयम् ॥
उत ब्रुवन्तु जन्तव उद् अग्निर् वृत्रहाजनि ।
धनंजयो रणे-रणे ॥
यस्य दूतो असि क्षये वेषि हव्यानि वीतये ।
दस्मत् कृणोष्य् अध्वरम् ॥
तम् इत् सुहव्यम् अङ्गिरः सुदेवं सहसो यहो ।
जना आहुः सुबर्हिषम् ॥
आ च वहासि ताँ इह देवाँ उप प्रशस्तये ।
हव्या सुश्चन्द्र वीतये ॥
न योर् उपब्दिर् अश्व्यः शृण्वे रथस्य कच् चन ।
यद् अग्ने यासि दूत्यम् ॥
त्वोतो वाज्य् अह्रयो ऽभि पूर्वस्माद् अपरः ।
प्र दाश्वाँ अग्ने अस्थात् ॥
उत द्युमत् सुवीर्यम् बृहद् अग्ने विवाससि ।
देवेभ्यो देव दाशुषे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0