ऋग्वेद · अध्याय 1.070
वनेम पूर्वीर् अर्यो मनीषा अग्निः सुशोको विश्वान्य् अश्याः ॥
आ दैव्यानि व्रता चिकित्वान् आ मानुषस्य जनस्य जन्म ॥
गर्भो यो अपां गर्भो वनानां गर्भश् च स्थातां गर्भश् चरथाम् ॥
अद्रौ चिद् अस्मा अन्तर् दुरोणे विशां न विश्वो अमृतः स्वाधीः ॥
स हि क्षपावाँ अग्नी रयीणां दाशद् यो अस्मा अरं सूक्तैः ॥
एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्ताँश् च विद्वान् ॥
वर्धान् यम् पूर्वीः क्षपो विरूपाः स्थातुश् च रथम् ऋतप्रवीतम् ॥
अराधि होता स्व1र् निषत्तः कृण्वन् विश्वान्य् अपांसि सत्या ॥
गोषु प्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं स्वर् णः ॥
वि त्वा नरः पुरुत्रा सपर्यन् पितुर् न जिव्रेर् वि वेदो भरन्त ॥
साधुर् न गृध्नुर् अस्तेव शूरो यातेव भीमस् त्वेषः समत्सु ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0