ऋग्वेद · अध्याय 1.069
शुक्रः शुशुक्वाँ उषो न जारः पप्रा समीची दिवो न ज्योतिः ॥
परि प्रजातः क्रत्वा बभूथ भुवो देवानाम् पिता पुत्रः सन् ॥
वेधा अदृप्तो अग्निर् विजानन्न् ऊधर् न गोनां स्वाद्मा पितूनाम् ॥
जने न शेव आहूर्यः सन् मध्ये निषत्तो रण्वो दुरोणे ॥
पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत् ॥
विशो यद् अह्वे नृभिः सनीळा अग्निर् देवत्वा विश्वान्य् अश्याः ॥
नकिष् ट एता व्रता मिनन्ति नृभ्यो यद् एभ्यः श्रुष्टिं चकर्थ ॥
तत् तु ते दंसो यद् अहन् समानैर् नृभिर् यद् युक्तो विवे रपांसि ॥
उषो न जारो विभावोस्रः संज्ञातरूपश् चिकेतद् अस्मै ॥
त्मना वहन्तो दुरो व्य् ऋण्वन् नवन्त विश्वे स्व1र् दृशीके ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0