भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.068

1.068.01

श्रीणन्न् उप स्थाद् दिवम् भुरण्युः स्थातुश् चरथम् अक्तून् व्य् ऊर्णोत् ॥

1.068.02

परि यद् एषाम् एको विश्वेषाम् भुवद् देवो देवानाम् महित्वा ॥

1.068.03

आद् इत् ते विश्वे क्रतुं जुषन्त शुष्काद् यद् देव जीवो जनिष्ठाः ॥

1.068.04

भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतम् एवैः ॥

1.068.05

ऋतस्य प्रेषा ऋतस्य धीतिर् विश्वायुर् विश्वे अपांसि चक्रुः ॥

1.068.06

यस् तुभ्यं दाशाद् यो वा ते शिक्षात् तस्मै चिकित्वान् रयिं दयस्व ॥

1.068.07

होता निषत्तो मनोर् अपत्ये स चिन् न्व् आसाम् पती रयीणाम् ॥

1.068.08

इच्छन्त रेतो मिथस् तनूषु सं जानत स्वैर् दक्षैर् अमूराः ॥

1.068.09

पितुर् न पुत्राः क्रतुं जुषन्त श्रोषन् ये अस्य शासं तुरासः ॥

1.068.10

वि राय और्णोद् दुरः पुरुक्षुः पिपेश नाकं स्तृभिर् दमूनाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc