भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.067

1.067.01

वनेषु जायुर् मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम् ॥

1.067.02

क्षेमो न साधुः क्रतुर् न भद्रो भुवत् स्वाधीर् होता हव्यवाट् ॥

1.067.03

हस्ते दधानो नृम्णा विश्वान्य् अमे देवान् धाद् गुहा निषीदन् ॥

1.067.04

विदन्तीम् अत्र नरो धियंधा हृदा यत् तष्टान् मन्त्राँ अशंसन् ॥

1.067.05

अजो न क्षां दाधार पृथिवीं तस्तम्भ द्याम् मन्त्रेभिः सत्यैः ॥

1.067.06

प्रिया पदानि पश्वो नि पाहि विश्वायुर् अग्ने गुहा गुहं गाः ॥

1.067.07

य ईं चिकेत गुहा भवन्तम् आ यः ससाद धाराम् ऋतस्य ॥

1.067.08

वि ये चृतन्त्य् ऋता सपन्त आद् इद् वसूनि प्र ववाचास्मै ॥

1.067.09

वि यो वीरुत्सु रोधन् महित्वोत प्रजा उत प्रसूष्व् अन्तः ॥

1.067.10

चित्तिर् अपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc