ऋग्वेद · अध्याय 1.063
त्वम् महाँ इन्द्र यो ह शुष्मैर् द्यावा जज्ञानः पृथिवी अमे धाः ।
यद् ध ते विश्वा गिरयश् चिद् अभ्वा भिया दृळ्हासः किरणा नैजन् ॥
आ यद् धरी इन्द्र विव्रता वेर् आ ते वज्रं जरिता बाह्वोर् धात् ।
येनाविहर्यतक्रतो अमित्रान् पुर इष्णासि पुरुहूत पूर्वीः ॥
त्वं सत्य इन्द्र धृष्णुर् एतान् त्वम् ऋभुक्षा नर्यस् त्वं षाट् ।
त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्साय द्युमते सचाहन् ॥
त्वं ह त्यद् इन्द्र चोदीः सखा वृत्रं यद् वज्रिन् वृषकर्मन्न् उभ्नाः ।
यद् ध शूर वृषमणः पराचैर् वि दस्यूँर् योनाव् अकृतो वृथाषाट् ॥
त्वं ह त्यद् इन्द्रारिषण्यन् दृळ्हस्य चिन् मर्तानाम् अजुष्टौ ।
व्य् अ1स्मद् आ काष्ठा अर्वते वर् घनेव वज्रिञ् छ्नथिह्य् अमित्रान् ॥
त्वां ह त्यद् इन्द्रार्णसातौ स्वर्मीळ्हे नर आजा हवन्ते ।
तव स्वधाव इयम् आ समर्य ऊतिर् वाजेष्व् अतसाय्या भूत् ॥
त्वं ह त्यद् इन्द्र सप्त युध्यन् पुरो वज्रिन् पुरुकुत्साय दर्दः ।
बर्हिर् न यत् सुदासे वृथा वर्ग् अंहो राजन् वरिवः पूरवे कः ॥
त्वं त्यां न इन्द्र देव चित्राम् इषम् आपो न पीपयः परिज्मन् ।
यया शूर प्रत्य् अस्मभ्यं यंसि त्मनम् ऊर्जं न विश्वध क्षरध्यै ॥
अकारि त इन्द्र गोतमेभिर् ब्रह्माण्य् ओक्ता नमसा हरिभ्याम् ।
सुपेशसं वाजम् आ भरा नः प्रातर् मक्षू धियावसुर् जगम्यात् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0