भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.062

1.062.01

प्र मन्महे शवसानाय शूषम् आङ्गूषं गिर्वणसे अङ्गिरस्वत् ।
सुवृक्तिभिः स्तुवत ऋग्मियायार्चामार्कं नरे विश्रुताय ॥

1.062.02

प्र वो महे महि नमो भरध्वम् आङ्गूष्यं शवसानाय साम ।
येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा अविन्दन् ॥

1.062.03

इन्द्रस्याङ्गिरसां चेष्टौ विदत् सरमा तनयाय धासिम् ।
बृहस्पतिर् भिनद् अद्रिं विदद् गाः सम् उस्रियाभिर् वावशन्त नरः ॥

1.062.04

स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो3 नवग्वैः ।
सरण्युभिः फलिगम् इन्द्र शक्र वलं रवेण दरयो दशग्वैः ॥

1.062.05

गृणानो अङ्गिरोभिर् दस्म वि वर् उषसा सूर्येण गोभिर् अन्धः ।
वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरम् अस्तभायः ॥

1.062.06

तद् उ प्रयक्षतमम् अस्य कर्म दस्मस्य चारुतमम् अस्ति दंसः ।
उपह्वरे यद् उपरा अपिन्वन् मध्वर्णसो नद्य1श् चतस्रः ॥

1.062.07

द्विता वि वव्रे सनजा सनीळे अयास्यः स्तवमानेभिर् अर्कैः ।
भगो न मेने परमे व्योमन्न् अधारयद् रोदसी सुदंसाः ॥

1.062.08

सनाद् दिवम् परि भूमा विरूपे पुनर्भुवा युवती स्वेभिर् एवैः ।
कृष्णेभिर् अक्तोषा रुशद्भिर् वपुर्भिर् आ चरतो अन्यान्या ॥

1.062.09

सनेमि सख्यं स्वपस्यमानः सूनुर् दाधार शवसा सुदंसाः ।
आमासु चिद् दधिषे पक्वम् अन्तः पयः कृष्णासु रुशद् रोहिणीषु ॥

1.062.10

सनात् सनीळा अवनीर् अवाता व्रता रक्षन्ते अमृताः सहोभिः ।
पुरू सहस्रा जनयो न पत्नीर् दुवस्यन्ति स्वसारो अह्रयाणम् ॥

1.062.11

सनायुवो नमसा नव्यो अर्कैर् वसूयवो मतयो दस्म दद्रुः ।
पतिं न पत्नीर् उशतीर् उशन्तं स्पृशन्ति त्वा शवसावन् मनीषाः ॥

1.062.12

सनाद् एव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति दस्म ।
द्युमाँ असि क्रतुमाँ इन्द्र धीरः शिक्षा शचीवस् तव नः शचीभिः ॥

1.062.13

सनायते गोतम इन्द्र नव्यम् अतक्षद् ब्रह्म हरियोजनाय ।
सुनीथाय नः शवसान नोधाः प्रातर् मक्षू धियावसुर् जगम्यात् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc