भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.064

1.064.01

वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिम् प्र भरा मरुद्भ्यः ।
अपो न धीरो मनसा सुहस्त्यो गिरः सम् अञ्जे विदथेष्व् आभुवः ॥

1.064.02

ते जज्ञिरे दिव ऋष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः ।
पावकासः शुचयः सूर्या इव सत्वानो न द्रप्सिनो घोरवर्पसः ॥

1.064.03

युवानो रुद्रा अजरा अभोग्घनो ववक्षुर् अध्रिगावः पर्वता इव ।
दृळ्हा चिद् विश्वा भुवनानि पार्थिवा प्र च्यावयन्ति दिव्यानि मज्मना ॥

1.064.04

चित्रैर् अञ्जिभिर् वपुषे व्य् अञ्जते वक्षःसु रुक्माँ अधि येतिरे शुभे ।
अंसेष्व् एषां नि मिमृक्षुर् ऋष्टयः साकं जज्ञिरे स्वधया दिवो नरः ॥

1.064.05

ईशानकृतो धुनयो रिशादसो वातान् विद्युतस् तविषीभिर् अक्रत ।
दुहन्त्य् ऊधर् दिव्यानि धूतयो भूमिम् पिन्वन्ति पयसा परिज्रयः ॥

1.064.06

पिन्वन्त्य् अपो मरुतः सुदानवः पयो घृतवद् विदथेष्व् आभुवः ।
अत्यं न मिहे वि नयन्ति वाजिनम् उत्सं दुहन्ति स्तनयन्तम् अक्षितम् ॥

1.064.07

महिषासो मायिनश् चित्रभानवो गिरयो न स्वतवसो रघुष्यदः ।
मृगा इव हस्तिनः खादथा वना यद् आरुणीषु तविषीर् अयुग्ध्वम् ॥

1.064.08

सिंहा इव नानदति प्रचेतसः पिशा इव सुपिशो विश्ववेदसः ।
क्षपो जिन्वन्तः पृषतीभिर् ऋष्टिभिः सम् इत् सबाधः शवसाहिमन्यवः ॥

1.064.09

रोदसी आ वदता गणश्रियो नृषाचः शूराः शवसाहिमन्यवः ।
आ वन्धुरेष्व् अमतिर् न दर्शता विद्युन् न तस्थौ मरुतो रथेषु वः ॥

1.064.10

विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस् तविषीभिर् विरप्शिनः ।
अस्तार इषुं दधिरे गभस्त्योर् अनन्तशुष्मा वृषखादयो नरः ॥

1.064.11

हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो3 न पर्वतान् ।
मखा अयासः स्वसृतो ध्रुवच्युतो दुध्रकृतो मरुतो भ्राजदृष्टयः ॥

1.064.12

घृषुम् पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गृणीमसि ।
रजस्तुरं तवसम् मारुतं गणम् ऋजीषिणं वृषणं सश्चत श्रिये ॥

1.064.13

प्र नू स मर्तः शवसा जनाँ अति तस्थौ व ऊती मरुतो यम् आवत ।
अर्वद्भिर् वाजम् भरते धना नृभिर् आपृच्छ्यं क्रतुम् आ क्षेति पुष्यति ॥

1.064.14

चर्कृत्यम् मरुतः पृत्सु दुष्टरं द्युमन्तं शुष्मम् मघवत्सु धत्तन ।
धनस्पृतम् उक्थ्यं विश्वचर्षणिं तोकम् पुष्येम तनयं शतं हिमाः ॥

1.064.15

नू ष्ठिरम् मरुतो वीरवन्तम् ऋतीषाहं रयिम् अस्मासु धत्त ।
सहस्रिणं शतिनं शूशुवांसम् प्रातर् मक्षू धियावसुर् जगम्यात् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc