ऋग्वेद · अध्याय 1.061
अस्मा इद् उ प्र तवसे तुराय प्रयो न हर्मि स्तोमम् माहिनाय ।
ऋचीषमायाध्रिगव ओहम् इन्द्राय ब्रह्माणि राततमा ॥
अस्मा इद् उ प्रय इव प्र यंसि भराम्य् आङ्गूषम् बाधे सुवृक्ति ।
इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥
अस्मा इद् उ त्यम् उपमं स्वर्षाम् भराम्य् आङ्गूषम् आस्येन ।
मंहिष्ठम् अच्छोक्तिभिर् मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥
अस्मा इद् उ स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय ।
गिरश् च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वम् मेधिराय ॥
अस्मा इद् उ सप्तिम् इव श्रवस्येन्द्रायार्कं जुह्वा3 सम् अञ्जे ।
वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥
अस्मा इद् उ त्वष्टा तक्षद् वज्रं स्वपस्तमं स्वर्य1ं रणाय ।
वृत्रस्य चिद् विदद् येन मर्म तुजन्न् ईशानस् तुजता कियेधाः ॥
अस्येद् उ मातुः सवनेषु सद्यो महः पितुम् पपिवाञ् चार्व् अन्ना ।
मुषायद् विष्णुः पचतं सहीयान् विध्यद् वराहं तिरो अद्रिम् अस्ता ॥
अस्मा इद् उ ग्नाश् चिद् देवपत्नीर् इन्द्रायार्कम् अहिहत्य ऊवुः ।
परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानम् परि ष्टः ॥
अस्येद् एव प्र रिरिचे महित्वं दिवस् पृथिव्याः पर्य् अन्तरिक्षात् ।
स्वराळ् इन्द्रो दम आ विश्वगूर्तः स्वरिर् अमत्रो ववक्षे रणाय ॥
अस्येद् एव शवसा शुषन्तं वि वृश्चद् वज्रेण वृत्रम् इन्द्रः ।
गा न व्राणा अवनीर् अमुञ्चद् अभि श्रवो दावने सचेताः ॥
अस्येद् उ त्वेषसा रन्त सिन्धवः परि यद् वज्रेण सीम् अयच्छत् ।
ईशानकृद् दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः कः ॥
अस्मा इद् उ प्र भरा तूतुजानो वृत्राय वज्रम् ईशानः कियेधाः ।
गोर् न पर्व वि रदा तिरश्चेष्यन्न् अर्णांस्य् अपां चरध्यै ॥
अस्येद् उ प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः ।
युधे यद् इष्णान आयुधान्य् ऋघायमाणो निरिणाति शत्रून् ॥
अस्येद् उ भिया गिरयश् च दृळ्हा द्यावा च भूमा जनुषस् तुजेते ।
उपो वेनस्य जोगुवान ओणिं सद्यो भुवद् वीर्याय नोधाः ॥
अस्मा इद् उ त्यद् अनु दाय्य् एषाम् एको यद् वव्ने भूरेर् ईशानः ।
प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विम् आवद् इन्द्रः ॥
एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् ।
ऐषु विश्वपेशसं धियं धाः प्रातर् मक्षू धियावसुर् जगम्यात् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0