भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.060

1.060.01

वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम् ।
द्विजन्मानं रयिम् इव प्रशस्तं रातिम् भरद् भृगवे मातरिश्वा ॥

1.060.02

अस्य शासुर् उभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः ।
दिवश् चित् पूर्वो न्य् असादि होतापृच्छ्यो विश्पतिर् विक्षु वेधाः ॥

1.060.03

तं नव्यसी हृद आ जायमानम् अस्मत् सुकीर्तिर् मधुजिह्वम् अश्याः ।
यम् ऋत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त ॥

1.060.04

उशिक् पावको वसुर् मानुषेषु वरेण्यो होताधायि विक्षु ।
दमूना गृहपतिर् दम आँ अग्निर् भुवद् रयिपती रयीणाम् ॥

1.060.05

तं त्वा वयम् पतिम् अग्ने रयीणाम् प्र शंसामो मतिभिर् गोतमासः ।
आशुं न वाजम्भरम् मर्जयन्तः प्रातर् मक्षू धियावसुर् जगम्यात् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc