ऋग्वेद · अध्याय 1.059
वया इद् अग्ने अग्नयस् ते अन्ये त्वे विश्वे अमृता मादयन्ते ।
वैश्वानर नाभिर् असि क्षितीनां स्थूणेव जनाँ उपमिद् ययन्थ ॥
मूर्धा दिवो नाभिर् अग्निः पृथिव्या अथाभवद् अरती रोदस्योः ।
तं त्वा देवासो ऽजनयन्त देवं वैश्वानर ज्योतिर् इद् आर्याय ॥
आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरे ऽग्ना वसूनि ।
या पर्वतेष्व् ओषधीष्व् अप्सु या मानुषेष्व् असि तस्य राजा ॥
बृहती इव सूनवे रोदसी गिरो होता मनुष्यो3 न दक्षः ।
स्वर्वते सत्यशुष्माय पूर्वीर् वैश्वानराय नृतमाय यह्वीः ॥
दिवश् चित् ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम् ।
राजा कृष्टीनाम् असि मानुषीणां युधा देवेभ्यो वरिवश् चकर्थ ॥
प्र नू महित्वं वृषभस्य वोचं यम् पूरवो वृत्रहणं सचन्ते ।
वैश्वानरो दस्युम् अग्निर् जघन्वाँ अधूनोत् काष्ठा अव शम्बरम् भेत् ॥
वैश्वानरो महिम्ना विश्वकृष्टिर् भरद्वाजेषु यजतो विभावा ।
शातवनेये शतिनीभिर् अग्निः पुरुणीथे जरते सूनृतावान् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0