ऋग्वेद · अध्याय 1.058
नू चित् सहोजा अमृतो नि तुन्दते होता यद् दूतो अभवद् विवस्वतः ।
वि साधिष्ठेभिः पथिभी रजो मम आ देवताता हविषा विवासति ॥
आ स्वम् अद्म युवमानो अजरस् तृष्व् अविष्यन्न् अतसेषु तिष्ठति ।
अत्यो न पृष्ठम् प्रुषितस्य रोचते दिवो न सानु स्तनयन्न् अचिक्रदत् ॥
क्राणा रुद्रेभिर् वसुभिः पुरोहितो होता निषत्तो रयिषाळ् अमर्त्यः ।
रथो न विक्ष्व् ऋञ्जसान आयुषु व्य् आनुषग् वार्या देव ऋण्वति ॥
वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः ।
तृषु यद् अग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर ॥
तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वाँ अव वाति वंसगः ।
अभिव्रजन्न् अक्षितम् पाजसा रजः स्थातुश् चरथम् भयते पतत्रिणः ॥
दधुष् ट्वा भृगवो मानुषेष्व् आ रयिं न चारुं सुहवं जनेभ्यः ।
होतारम् अग्ने अतिथिं वरेण्यम् मित्रं न शेवं दिव्याय जन्मने ॥
होतारं सप्त जुह्वो3 यजिष्ठं यं वाघतो वृणते अध्वरेषु ।
अग्निं विश्वेषाम् अरतिं वसूनां सपर्यामि प्रयसा यामि रत्नम् ॥
अच्छिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यच्छ ।
अग्ने गृणन्तम् अंहस उरुष्योर्जो नपात् पूर्भिर् आयसीभिः ॥
भवा वरूथं गृणते विभावो भवा मघवन् मघवद्भ्यः शर्म ।
उरुष्याग्ने अंहसो गृणन्तम् प्रातर् मक्षू धियावसुर् जगम्यात् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0