भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.057

1.057.01

प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिम् भरे ।
अपाम् इव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥

1.057.02

अध ते विश्वम् अनु हासद् इष्टय आपो निम्नेव सवना हविष्मतः ।
यत् पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥

1.057.03

अस्मै भीमाय नमसा सम् अध्वर उषो न शुभ्र आ भरा पनीयसे ।
यस्य धाम श्रवसे नामेन्द्रियं ज्योतिर् अकारि हरितो नायसे ॥

1.057.04

इमे त इन्द्र ते वयम् पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो ।
नहि त्वद् अन्यो गिर्वणो गिरः सघत् क्षोणीर् इव प्रति नो हर्य तद् वचः ॥

1.057.05

भूरि त इन्द्र वीर्य1ं तव स्मस्य् अस्य स्तोतुर् मघवन् कामम् आ पृण ।
अनु ते द्यौर् बृहती वीर्यम् मम इयं च ते पृथिवी नेम ओजसे ॥

1.057.06

त्वं तम् इन्द्र पर्वतम् महाम् उरुं वज्रेण वज्रिन् पर्वशश् चकर्तिथ ।
अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc