भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.053

1.053.01

न्य् ऊ3 षु वाचम् प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः ।
नू चिद् धि रत्नं ससताम् इवाविदन् न दुष्टुतिर् द्रविणोदेषु शस्यते ॥

1.053.02

दुरो अश्वस्य दुर इन्द्र गोर् असि दुरो यवस्य वसुन इनस् पतिः ।
शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस् तम् इदं गृणीमसि ॥

1.053.03

शचीव इन्द्र पुरुकृद् द्युमत्तम तवेद् इदम् अभितश् चेकिते वसु ।
अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः कामम् ऊनयीः ॥

1.053.04

एभिर् द्युभिः सुमना एभिर् इन्दुभिर् निरुन्धानो अमतिं गोभिर् अश्विना ।
इन्द्रेण दस्युं दरयन्त इन्दुभिर् युतद्वेषसः सम् इषा रभेमहि ॥

1.053.05

सम् इन्द्र राया सम् इषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैर् अभिद्युभिः ।
सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥

1.053.06

ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते ।
यत् कारवे दश वृत्राण्य् अप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥

1.053.07

युधा युधम् उप घेद् एषि धृष्णुया पुरा पुरं सम् इदं हंस्य् ओजसा ।
नम्या यद् इन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥

1.053.08

त्वं करञ्जम् उत पर्णयं वधीस् तेजिष्ठयातिथिग्वस्य वर्तनी ।
त्वं शता वङ्गृदस्याभिनत् पुरो ऽनानुदः परिषूता ऋजिश्वना ॥

1.053.09

त्वम् एताञ् जनराज्ञो द्विर् दशाबन्धुना सुश्रवसोपजग्मुषः ।
षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक् ॥

1.053.10

त्वम् आविथ सुश्रवसं तवोतिभिस् तव त्रामभिर् इन्द्र तूर्वयाणम् ।
त्वम् अस्मै कुत्सम् अतिथिग्वम् आयुम् महे राज्ञे यूने अरन्धनायः ॥

1.053.11

य उदृचीन्द्र देवगोपाः सखायस् ते शिवतमा असाम ।
त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc