ऋग्वेद · अध्याय 1.052
त्यं सु मेषम् महया स्वर्विदं शतं यस्य सुभ्वः साकम् ईरते ।
अत्यं न वाजं हवनस्यदं रथम् एन्द्रं ववृत्याम् अवसे सुवृक्तिभिः ॥
स पर्वतो न धरुणेष्व् अच्युतः सहस्रमूतिस् तविषीषु वावृधे ।
इन्द्रो यद् वृत्रम् अवधीन् नदीवृतम् उब्जन्न् अर्णांसि जर्हृषाणो अन्धसा ॥
स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः ।
इन्द्रं तम् अह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिर् अन्धसः ॥
आ यम् पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्व1ः स्वा अभिष्टयः ।
तं वृत्रहत्ये अनु तस्थुर् ऊतयः शुष्मा इन्द्रम् अवाता अह्रुतप्सवः ॥
अभि स्ववृष्टिम् मदे अस्य युध्यतो रघ्वीर् इव प्रवणे सस्रुर् ऊतयः ।
इन्द्रो यद् वज्री धृषमाणो अन्धसा भिनद् वलस्य परिधीँर् इव त्रितः ॥
परीं घृणा चरति तित्विषे शवो ऽपो वृत्वी रजसो बुध्नम् आशयत् ।
वृत्रस्य यत् प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोर् इन्द्र तन्यतुम् ॥
ह्रदं न हि त्वा न्यृषन्त्य् ऊर्मयो ब्रह्माणीन्द्र तव यानि वर्धना ।
त्वष्टा चित् ते युज्यं वावृधे शवस् ततक्ष वज्रम् अभिभूत्योजसम् ॥
जघन्वाँ उ हरिभिः सम्भृतक्रतव् इन्द्र वृत्रम् मनुषे गातुयन्न् अपः ।
अयच्छथा बाह्वोर् वज्रम् आयसम् अधारयो दिव्य् आ सूर्यं दृशे ॥
बृहत् स्वश्चन्द्रम् अमवद् यद् उक्थ्य1म् अकृण्वत भियसा रोहणं दिवः ।
यन् मानुषप्रधना इन्द्रम् ऊतयः स्वर् नृषाचो मरुतो ऽमदन्न् अनु ॥
द्यौश् चिद् अस्यामवाँ अहेः स्वनाद् अयोयवीद् भियसा वज्र इन्द्र ते ।
वृत्रस्य यद् बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच् छिरः ॥
यद् इन् न्व् इन्द्र पृथिवी दशभुजिर् अहानि विश्वा ततनन्त कृष्टयः ।
अत्राह ते मघवन् विश्रुतं सहो द्याम् अनु शवसा बर्हणा भुवत् ॥
त्वम् अस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः ।
चकृषे भूमिम् प्रतिमानम् ओजसो ऽपः स्वः परिभूर् एष्य् आ दिवम् ॥
त्वम् भुवः प्रतिमानम् पृथिव्या ऋष्ववीरस्य बृहतः पतिर् भूः ।
विश्वम् आप्रा अन्तरिक्षम् महित्वा सत्यम् अद्धा नकिर् अन्यस् त्वावान् ॥
न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तम् आनशुः ।
नोत स्ववृष्टिम् मदे अस्य युध्यत एको अन्यच् चकृषे विश्वम् आनुषक् ॥
आर्चन्न् अत्र मरुतः सस्मिन्न् आजौ विश्वे देवासो अमदन्न् अनु त्वा ।
वृत्रस्य यद् भृष्टिमता वधेन नि त्वम् इन्द्र प्रत्य् आनं जघन्थ ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0