ऋग्वेद · अध्याय 1.048
सह वामेन न उषो व्य् उच्छा दुहितर् दिवः ।
सह द्युम्नेन बृहता विभावरि राया देवि दास्वती ॥
अश्वावतीर् गोमतीर् विश्वसुविदो भूरि च्यवन्त वस्तवे ।
उद् ईरय प्रति मा सूनृता उषश् चोद राधो मघोनाम् ॥
उवासोषा उच्छाच् च नु देवी जीरा रथानाम् ।
ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ॥
उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः ।
अत्राह तत् कण्व एषां कण्वतमो नाम गृणाति नृणाम् ॥
आ घा योषेव सूनर्य् उषा याति प्रभुञ्जती ।
जरयन्ती वृजनम् पद्वद् ईयत उत् पातयति पक्षिणः ॥
वि या सृजति समनं व्य् अ1र्थिनः पदं न वेत्य् ओदती ।
वयो नकिष् टे पप्तिवांस आसते व्युष्टौ वाजिनीवति ॥
एषायुक्त परावतः सूर्यस्योदयनाद् अधि ।
शतं रथेभिः सुभगोषा इयं वि यात्य् अभि मानुषान् ॥
विश्वम् अस्या नानाम चक्षसे जगज् ज्योतिष् कृणोति सूनरी ।
अप द्वेषो मघोनी दुहिता दिव उषा उच्छद् अप स्रिधः ॥
उष आ भाहि भानुना चन्द्रेण दुहितर् दिवः ।
आवहन्ती भूर्य् अस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु ॥
विश्वस्य हि प्राणनं जीवनं त्वे वि यद् उच्छसि सूनरि ।
सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ॥
उषो वाजं हि वंस्व यश् चित्रो मानुषे जने ।
तेना वह सुकृतो अध्वराँ उप ये त्वा गृणन्ति वह्नयः ॥
विश्वान् देवाँ आ वह सोमपीतये ऽन्तरिक्षाद् उषस् त्वम् ।
सास्मासु धा गोमद् अश्वावद् उक्थ्य1म् उषो वाजं सुवीर्यम् ॥
यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत ।
सा नो रयिं विश्ववारं सुपेशसम् उषा ददातु सुग्म्यम् ॥
ये चिद् धि त्वाम् ऋषयः पूर्व ऊतये जुहूरे ऽवसे महि ।
सा नः स्तोमाँ अभि गृणीहि राधसोषः शुक्रेण शोचिषा ॥
उषो यद् अद्य भानुना वि द्वाराव् ऋणवो दिवः ।
प्र नो यच्छताद् अवृकम् पृथु च्छर्दिः प्र देवि गोमतीर् इषः ॥
सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा सम् इळाभिर् आ ।
सं द्युम्नेन विश्वतुरोषो महि सं वाजैर् वाजिनीवति ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0