ऋग्वेद · अध्याय 1.044
अग्ने विवस्वद् उषसश् चित्रं राधो अमर्त्य ।
आ दाशुषे जातवेदो वहा त्वम् अद्या देवाँ उषर्बुधः ॥
जुष्टो हि दूतो असि हव्यवाहनो ऽग्ने रथीर् अध्वराणाम् ।
सजूर् अश्विभ्याम् उषसा सुवीर्यम् अस्मे धेहि श्रवो बृहत् ॥
अद्या दूतं वृणीमहे वसुम् अग्निम् पुरुप्रियम् ।
धूमकेतुम् भाऋजीकं व्युष्टिषु यज्ञानाम् अध्वरश्रियम् ॥
श्रेष्ठं यविष्ठम् अतिथिं स्वाहुतं जुष्टं जनाय दाशुषे ।
देवाँ अच्छा यातवे जातवेदसम् अग्निम् ईळे व्युष्टिषु ॥
स्तविष्यामि त्वाम् अहं विश्वस्यामृत भोजन ।
अग्ने त्रातारम् अमृतम् मियेध्य यजिष्ठं हव्यवाहन ॥
सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः ।
प्रस्कण्वस्य प्रतिरन्न् आयुर् जीवसे नमस्या दैव्यं जनम् ॥
होतारं विश्ववेदसं सं हि त्वा विश इन्धते ।
स आ वह पुरुहूत प्रचेतसो ऽग्ने देवाँ इह द्रवत् ॥
सवितारम् उषसम् अश्विना भगम् अग्निं व्युष्टिषु क्षपः ।
कण्वासस् त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ॥
पतिर् ह्य् अध्वराणाम् अग्ने दूतो विशाम् असि ।
उषर्बुध आ वह सोमपीतये देवाँ अद्य स्वर्दृशः ॥
अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः ।
असि ग्रामेष्व् अविता पुरोहितो ऽसि यज्ञेषु मानुषः ॥
नि त्वा यज्ञस्य साधनम् अग्ने होतारम् ऋत्विजम् ।
मनुष्वद् देव धीमहि प्रचेतसं जीरं दूतम् अमर्त्यम् ॥
यद् देवानाम् मित्रमहः पुरोहितो ऽन्तरो यासि दूत्यम् ।
सिन्धोर् इव प्रस्वनितास ऊर्मयो ऽग्नेर् भ्राजन्ते अर्चयः ॥
श्रुधि श्रुत्कर्ण वह्निभिर् देवैर् अग्ने सयावभिः ।
आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् ॥
शृण्वन्तु स्तोमम् मरुतः सुदानवो ऽग्निजिह्वा ऋतावृधः ।
पिबतु सोमं वरुणो धृतव्रतो ऽश्विभ्याम् उषसा सजूः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0