ऋग्वेद · अध्याय 1.036
प्र वो यह्वम् पुरूणां विशां देवयतीनाम् ।
अग्निं सूक्तेभिर् वचोभिर् ईमहे यं सीम् इद् अन्य ईळते ॥
जनासो अग्निं दधिरे सहोवृधं हविष्मन्तो विधेम ते ।
स त्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य ॥
प्र त्वा दूतं वृणीमहे होतारं विश्ववेदसम् ।
महस् ते सतो वि चरन्त्य् अर्चयो दिवि स्पृशन्ति भानवः ॥
देवासस् त्वा वरुणो मित्रो अर्यमा सं दूतम् प्रत्नम् इन्धते ।
विश्वं सो अग्ने जयति त्वया धनं यस् ते ददाश मर्त्यः ॥
मन्द्रो होता गृहपतिर् अग्ने दूतो विशाम् असि ।
त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत ॥
त्वे इद् अग्ने सुभगे यविष्ठ्य विश्वम् आ हूयते हविः ।
स त्वं नो अद्य सुमना उतापरं यक्षि देवान् सुवीर्या ॥
तं घेम् इत्था नमस्विन उप स्वराजम् आसते ।
होत्राभिर् अग्निम् मनुषः सम् इन्धते तितिर्वांसो अति स्रिधः ॥
घ्नन्तो वृत्रम् अतरन् रोदसी अप उरु क्षयाय चक्रिरे ।
भुवत् कण्वे वृषा द्युम्न्य् आहुतः क्रन्दद् अश्वो गविष्टिषु ॥
सं सीदस्व महाँ असि शोचस्व देववीतमः ।
वि धूमम् अग्ने अरुषम् मियेध्य सृज प्रशस्त दर्शतम् ॥
यं त्वा देवासो मनवे दधुर् इह यजिष्ठं हव्यवाहन ।
यं कण्वो मेध्यातिथिर् धनस्पृतं यं वृषा यम् उपस्तुतः ॥
यम् अग्निम् मेध्यातिथिः कण्व ईध ऋताद् अधि ।
तस्य प्रेषो दीदियुस् तम् इमा ऋचस् तम् अग्निं वर्धयामसि ॥
रायस् पूर्धि स्वधावो ऽस्ति हि ते ऽग्ने देवेष्व् आप्यम् ।
त्वं वाजस्य श्रुत्यस्य राजसि स नो मृळ महाँ असि ॥
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता ।
ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघद्भिर् विह्वयामहे ॥
ऊर्ध्वो नः पाह्य् अंहसो नि केतुना विश्वं सम् अत्रिणं दह ।
कृधी न ऊर्ध्वाञ् चरथाय जीवसे विदा देवेषु नो दुवः ॥
पाहि नो अग्ने रक्षसः पाहि धूर्तेर् अराव्णः ।
पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य ॥
घनेव विष्वग् वि जह्य् अराव्णस् तपुर्जम्भ यो अस्मध्रुक् ।
यो मर्त्यः शिशीते अत्य् अक्तुभिर् मा नः स रिपुर् ईशत ॥
अग्निर् वव्ने सुवीर्यम् अग्निः कण्वाय सौभगम् ।
अग्निः प्रावन् मित्रोत मेध्यातिथिम् अग्निः साता उपस्तुतम् ॥
अग्निना तुर्वशं यदुम् परावत उग्रादेवं हवामहे ।
अग्निर् नयन् नववास्त्वम् बृहद्रथं तुर्वीतिं दस्यवे सहः ॥
नि त्वाम् अग्ने मनुर् दधे ज्योतिर् जनाय शश्वते ।
दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ॥
त्वेषासो अग्नेर् अमवन्तो अर्चयो भीमासो न प्रतीतये ।
रक्षस्विनः सदम् इद् यातुमावतो विश्वं सम् अत्रिणं दह ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0