भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.035

1.035.01

ह्वयाम्य् अग्निम् प्रथमं स्वस्तये ह्वयामि मित्रावरुणाव् इहावसे ।
ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारम् ऊतये ॥

1.035.02

आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतम् मर्त्यं च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥

1.035.03

याति देवः प्रवता यात्य् उद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् ।
आ देवो याति सविता परावतो ऽप विश्वा दुरिता बाधमानः ॥

1.035.04

अभीवृतं कृशनैर् विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् ।
आस्थाद् रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥

1.035.05

वि जनाञ् छ्यावाः शितिपादो अख्यन् रथं हिरण्यप्रüगं वहन्तः ।
शश्वद् विशः सवितुर् दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ॥

1.035.06

तिस्रो द्यावः सवितुर् द्वा उपस्थाँ एका यमस्य भुवने विराषाट् ।
आणिं न रथ्यम् अमृताधि तस्थुर् इह ब्रवीतु य उ तच् चिकेतत् ॥

1.035.07

वि सुपर्णो अन्तरिक्षाण्य् अख्यद् गभीरवेपा असुरः सुनीथः ।
क्वे3दानीं सूर्यः कश् चिकेत कतमां द्यां रश्मिर् अस्या ततान ॥

1.035.08

अष्टौ व्य् अख्यत् ककुभः पृथिव्यास् त्री धन्व योजना सप्त सिन्धून् ।
हिरण्याक्षः सविता देव आगाद् दधद् रत्ना दाशुषे वार्याणि ॥

1.035.09

हिरण्यपाणिः सविता विचर्षणिर् उभे द्यावापृथिवी अन्तर् ईयते ।
अपामीवाम् बाधते वेति सूर्यम् अभि कृष्णेन रजसा द्याम् ऋणोति ॥

1.035.10

हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववाँ यात्व् अर्वाङ् ।
अपसेधन् रक्षसो यातुधानान् अस्थाद् देवः प्रतिदोषं गृणानः ॥

1.035.11

ये ते पन्थाः सवितः पूर्व्यासो ऽरेणवः सुकृता अन्तरिक्षे ।
तेभिर् नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc