भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.034

1.034.01

त्रिश् चिन् नो अद्या भवतं नवेदसा विभुर् वां याम उत रातिर् अश्विना ।
युवोर् हि यन्त्रं हिम्येव वाससो ऽभ्यायंसेन्या भवतम् मनीषिभिः ॥

1.034.02

त्रयः पवयो मधुवाहने रथे सोमस्य वेनाम् अनु विश्व इद् विदुः ।
त्रयः स्कम्भासः स्कभितास आरभे त्रिर् नक्तं याथस् त्रिर् व् अश्विना दिवा ॥

1.034.03

समाने अहन् त्रिर् अवद्यगोहना त्रिर् अद्य यज्ञम् मधुना मिमिक्षतम् ।
त्रिर् वाजवतीर् इषो अश्विना युवं दोषा अस्मभ्यम् उषसश् च पिन्वतम् ॥

1.034.04

त्रिर् वर्तिर् यातं त्रिर् अनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम् ।
त्रिर् नान्द्यं वहतम् अश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम् ॥

1.034.05

त्रिर् नो रयिं वहतम् अश्विना युवं त्रिर् देवताता त्रिर् उतावतं धियः ।
त्रिः सौभगत्वं त्रिर् उत श्रवांसि नस् त्रिष्ठं वां सूरे दुहिता रुहद् रथम् ॥

1.034.06

त्रिर् नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिर् उ दत्तम् अद्भ्यः ।
ओमानं शंयोर् ममकाय सूनवे त्रिधातु शर्म वहतं शुभस् पती ॥

1.034.07

त्रिर् नो अश्विना यजता दिवे-दिवे परि त्रिधातु पृथिवीम् अशायतम् ।
तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम् ॥

1.034.08

त्रिर् अश्विना सिन्धुभिः सप्तमातृभिस् त्रय आहावास् त्रेधा हविष् कृतम् ।
तिस्रः पृथिवीर् उपरि प्रवा दिवो नाकं रक्षेथे द्युभिर् अक्तुभिर् हितम् ॥

1.034.09

क्व1 त्री चक्रा त्रिवृतो रथस्य क्व1 त्रयो वन्धुरो ये सनीळाः ।
कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ॥

1.034.10

आ नासत्या गच्छतं हूयते हविर् मध्वः पिबतम् मधुपेभिर् आसभिः ।
युवोर् हि पूर्वं सवितोषसो रथम् ऋताय चित्रं घृतवन्तम् इष्यति ॥

1.034.11

आ नासत्या त्रिभिर् एकादशैर् इह देवेभिर् यातम् मधुपेयम् अश्विना ।
प्रायुस् तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥

1.034.12

आ नो अश्विना त्रिवृता रथेनार्वाञ्चं रयिं वहतं सुवीरम् ।
शृण्वन्ता वाम् अवसे जोहवीमि वृधे च नो भवतं वाजसातौ ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc