ऋग्वेद · अध्याय 1.033
एतायामोप गव्यन्त इन्द्रम् अस्माकं सु प्रमतिं वावृधाति ।
अनामृणः कुविद् आद् अस्य रायो गवां केतम् परम् आवर्जते नः ॥
उपेद् अहं धनदाम् अप्रतीतं जुष्टां न श्येनो वसतिम् पतामि ।
इन्द्रं नमस्यन्न् उपमेभिर् अर्कैर् यः स्तोतृभ्यो हव्यो अस्ति यामन् ॥
नि सर्वसेन इषुधीँर् असक्त सम् अर्यो गा अजति यस्य वष्टि ।
चोष्कूयमाण इन्द्र भूरि वामम् मा पणिर् भूर् अस्मद् अधि प्रवृद्ध ॥
वधीर् हि दस्युं धनिनं घनेनँ एकश् चरन्न् उपशाकेभिर् इन्द्र ।
धनोर् अधि विषुणक् ते व्य् आयन्न् अयज्वानः सनकाः प्रेतिम् ईयुः ॥
परा चिच् छीर्षा ववृजुस् त इन्द्रायज्वानो यज्वभिः स्पर्धमानाः ।
प्र यद् दिवो हरिवः स्थातर् उग्र निर् अव्रताँ अधमो रोदस्योः ॥
अयुयुत्सन्न् अनवद्यस्य सेनाम् अयातयन्त क्षितयो नवग्वाः ।
वृषायुधो न वध्रयो निरष्टाः प्रवद्भिर् इन्द्राच् चितयन्त आयन् ॥
त्वम् एतान् रुदतो जक्षतश् चायोधयो रजस इन्द्र पारे ।
अवादहो दिव आ दस्युम् उच्चा प्र सुन्वतः स्तुवतः शंसम् आवः ॥
चक्राणासः परीणहम् पृथिव्या हिरण्येन मणिना शुम्भमानाः ।
न हिन्वानासस् तितिरुस् त इन्द्रम् परि स्पशो अदधात् सूर्येण ॥
परि यद् इन्द्र रोदसी उभे अबुभोजीर् महिना विश्वतः सीम् ।
अमन्यमानाँ अभि मन्यमानैर् निर् ब्रह्मभिर् अधमो दस्युम् इन्द्र ॥
न ये दिवः पृथिव्या अन्तम् आपुर् न मायाभिर् धनदाम् पर्यभूवन् ।
युजं वज्रं वृषभश् चक्र इन्द्रो निर् ज्योतिषा तमसो गा अदुक्षत् ॥
अनु स्वधाम् अक्षरन्न् आपो अस्यावर्धत मध्य आ नाव्यानाम् ।
सध्रीचीनेन मनसा तम् इन्द्र ओजिष्ठेन हन्मनाहन्न् अभि द्यून् ॥
न्य् आविध्यद् इलीबिशस्य दृळ्हा वि शृङ्गिणम् अभिनच् छुष्णम् इन्द्रः ।
यावत् तरो मघवन् यावद् ओजो वज्रेण शत्रुम् अवधीः पृतन्युम् ॥
अभि सिध्मो अजिगाद् अस्य शत्रून् वि तिग्मेन वृषभेणा पुरो ऽभेत् ।
सं वज्रेणासृजद् वृत्रम् इन्द्रः प्र स्वाम् मतिम् अतिरच् छाशदानः ॥
आवः कुत्सम् इन्द्र यस्मिञ् चाकन् प्रावो युध्यन्तं वृषभं दशद्युम् ।
शफच्युतो रेणुर् नक्षत द्याम् उच् छ्वैत्रेयो नृषाह्याय तस्थौ ॥
आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ् छ्वित्र्यं गाम् ।
ज्योक् चिद् अत्र तस्थिवांसो अक्रञ् छत्रूयताम् अधरा वेदनाकः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0