ऋग्वेद · अध्याय 1.032
इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री ।
अहन्न् अहिम् अन्व् अपस् ततर्द प्र वक्षणा अभिनत् पर्वतानाम् ॥
अहन्न् अहिम् पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रम् अव जग्मुर् आपः ॥
वृषायमाणो ऽवृणीत सोमं त्रिकद्रुकेष्व् अपिबत् सुतस्य ।
आ सायकम् मघवादत्त वज्रम् अहन्न् एनम् प्रथमजाम् अहीनाम् ॥
यद् इन्द्राहन् प्रथमजाम् अहीनाम् आन् मायिनाम् अमिनाः प्रोत मायाः ।
आत् सूर्यं जनयन् द्याम् उषासं तादीत्ना शत्रुं न किला विवित्से ॥
अहन् वृत्रं वृत्रतरं व्यंसम् इन्द्रो वज्रेण महता वधेन ।
स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक् पृथिव्याः ॥
अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधम् ऋजीषम् ।
नातारीद् अस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ॥
अपाद् अहस्तो अपृतन्यद् इन्द्रम् आस्य वज्रम् अधि सानौ जघान ।
वृष्णो वध्रिः प्रतिमानम् बुभूषन् पुरुत्रा वृत्रो अशयद् व्यस्तः ॥
नदं न भिन्नम् अमुया शयानम् मनो रुहाणा अति यन्त्य् आपः ।
याश् चिद् वृत्रो महिना पर्यतिष्ठत् तासाम् अहिः पत्सुतःशीर् बभूव ॥
नीचावया अभवद् वृत्रपुत्रेन्द्रो अस्या अव वधर् जभार ।
उत्तरा सूर् अधरः पुत्र आसीद् दानुः शये सहवत्सा न धेनुः ॥
अतिष्ठन्तीनाम् अनिवेशनानां काष्ठानाम् मध्ये निहितं शरीरम् ।
वृत्रस्य निण्यं वि चरन्त्य् आपो दीर्घं तम आशयद् इन्द्रशत्रुः ॥
दासपत्नीर् अहिगोपा अतिष्ठन् निरुद्धा आपः पणिनेव गावः ।
अपाम् बिलम् अपिहितं यद् आसीद् वृत्रं जघन्वाँ अप तद् ववार ॥
अश्व्यो वारो अभवस् तद् इन्द्र सृके यत् त्वा प्रत्यहन् देव एकः ।
अजयो गा अजयः शूर सोमम् अवासृजः सर्तवे सप्त सिन्धून् ॥
नास्मै विद्युन् न तन्यतुः सिषेध न याम् मिहम् अकिरद् ध्रादुनिं च ।
इन्द्रश् च यद् युयुधाते अहिश् चोतापरीभ्यो मघवा वि जिग्ये ॥
अहेर् यातारं कम् अपश्य इन्द्र हृदि यत् ते जघ्नुषो भीर् अगच्छत् ।
नव च यन् नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि ॥
इन्द्रो यातो ऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः ।
सेद् उ राजा क्षयति चर्षणीनाम् अरान् न नेमिः परि ता बभूव ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0