ऋग्वेद · अध्याय 1.031
त्वम् अग्ने प्रथमो अङ्गिरा ऋषिर् देवो देवानाम् अभवः शिवः सखा ।
तव व्रते कवयो विद्मनापसो ऽजायन्त मरुतो भ्राजदृष्टयः ॥
त्वम् अग्ने प्रथमो अङ्गिरस्तमः कविर् देवानाम् परि भूषसि व्रतम् ।
विभुर् विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिद् आयवे ॥
त्वम् अग्ने प्रथमो मातरिश्वन आविर् भव सुक्रतूया विवस्वते ।
अरेजेतां रोदसी होतृवूर्ये ऽसघ्नोर् भारम् अयजो महो वसो ॥
त्वम् अग्ने मनवे द्याम् अवाशयः पुरूरवसे सुकृते सुकृत्तरः ।
श्वात्रेण यत् पित्रोर् मुच्यसे पर्य् आ त्वा पूर्वम् अनयन्न् आपरम् पुनः ॥
त्वम् अग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः ।
य आहुतिम् परि वेदा वषट्कृतिम् एकायुर् अग्रे विश आविवाससि ॥
त्वम् अग्ने वृजिनवर्तनिं नरं सक्मन् पिपर्षि विदथे विचर्षणे ।
यः शूरसाता परितक्म्ये धने दभ्रेभिश् चित् समृता हंसि भूयसः ॥
त्वं तम् अग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे दिवे-दिवे ।
यस् तातृषाण उभयाय जन्मने मयः कृणोषि प्रय आ च सूरये ॥
त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः ।
ऋध्याम कर्मापसा नवेन देवैर् द्यावापृथिवी प्रावतं नः ॥
त्वं नो अग्ने पित्रोर् उपस्थ आ देवो देवेष्व् अनवद्य जागृविः ।
तनूकृद् बोधि प्रमतिश् च कारवे त्वं कल्याण वसु विश्वम् ओपिषे ॥
त्वम् अग्ने प्रमतिस् त्वम् पितासि नस् त्वं वयस्कृत् तव जामयो वयम् ।
सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपाम् अदाभ्य ॥
त्वाम् अग्ने प्रथमम् आयुम् आयवे देवा अकृण्वन् नहुषस्य विश्पतिम् ।
इळाम् अकृण्वन् मनुषस्य शासनीम् पितुर् यत् पुत्रो ममकस्य जायते ॥
त्वं नो अग्ने तव देव पायुभिर् मघोनो रक्ष तन्वश् च वन्द्य ।
त्राता तोकस्य तनये गवाम् अस्य् अनिमेषं रक्षमाणस् तव व्रते ॥
त्वम् अग्ने यज्यवे पायुर् अन्तरो ऽनिषङ्गाय चतुरक्ष इध्यसे ।
यो रातहव्यो ऽवृकाय धायसे कीरेश् चिन् मन्त्रम् मनसा वनोषि तम् ॥
त्वम् अग्न उरुशंसाय वाघते स्पार्हं यद् रेक्णः परमं वनोषि तत् ।
आध्रस्य चित् प्रमतिर् उच्यसे पिता प्र पाकं शास्सि प्र दिशो विदुष्टरः ॥
त्वम् अग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतम् परि पासि विश्वतः ।
स्वादुक्षद्मा यो वसतौ स्योनकृज् जीवयाजं यजते सोपमा दिवः ॥
इमाम् अग्ने शरणिम् मीमृषो न इमम् अध्वानं यम् अगाम दूरात् ।
आपिः पिता प्रमतिः सोम्यानाम् भृमिर् अस्य् ऋषिकृन् मर्त्यानाम् ॥
मनुष्वद् अग्ने अङ्गिरस्वद् अङ्गिरो ययातिवत् सदने पूर्ववच् छुचे ।
अच्छ याह्य् आ वहा दैव्यं जनम् आ सादय बर्हिषि यक्षि च प्रियम् ॥
एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत् ते चकृमा विदा वा ।
उत प्र णेष्य् अभि वस्यो अस्मान् सं नः सृज सुमत्या वाजवत्या ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0