ऋग्वेद · अध्याय 1.030
आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम् ।
मंहिष्ठं सिञ्च इन्दुभिः ॥
शतं वा यः शुचीनां सहस्रं वा समाशिराम् ।
एद् उ निम्नं न रीयते ॥
सं यन् मदाय शुष्मिण एना ह्य् अस्योदरे ।
समुद्रो न व्यचो दधे ॥
अयम् उ ते सम् अतसि कपोत इव गर्भधिम् ।
वचस् तच् चिन् न ओहसे ॥
स्तोत्रं राधानाम् पते गिर्वाहो वीर यस्य ते ।
विभूतिर् अस्तु सूनृता ॥
ऊर्ध्वस् तिष्ठा न ऊतये ऽस्मिन् वाजे शतक्रतो ।
सम् अन्येषु ब्रवावहै ॥
योगे-योगे तवस्तरं वाजे-वाजे हवामहे ।
सखाय इन्द्रम् ऊतये ॥
आ घा गमद् यदि श्रवत् सहस्रिणीभिर् ऊतिभिः ।
वाजेभिर् उप नो हवम् ॥
अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् ।
यं ते पूर्वम् पिता हुवे ॥
तं त्वा वयं विश्ववारा शास्महे पुरुहूत ।
सखे वसो जरितृभ्यः ॥
अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम् ।
सखे वज्रिन् सखीनाम् ॥
तथा तद् अस्तु सोमपाः सखे वज्रिन् तथा कृणु ।
यथा त उश्मसीष्टये ॥
रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः ।
क्षुमन्तो याभिर् मदेम ॥
आ घ त्वावान् त्मनाप्तः स्तोतृभ्यो धृष्णव् इयानः ।
ऋणोर् अक्षं न चक्र्योः ॥
आ यद् दुवः शतक्रतव् आ कामं जरितॄणाम् ।
ऋणोर् अक्षं न शचीभिः ॥
शश्वद् इन्द्रः पोप्रुथद्भिर् जिगाय नानदद्भिः शाश्वसद्भिर् धनानि ।
स नो हिरण्यरथं दंसनावान् स नः सनिता सनये स नो ऽदात् ॥
आश्विनाव् अश्वावत्येषा यातं शवीरया ।
गोमद् दस्रा हिरण्यवत् ॥
समानयोजनो हि वां रथो दस्राव् अमर्त्यः ।
समुद्रे अश्विनेयते ॥
न्य् अ1घ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः ।
परि द्याम् अन्यद् ईयते ॥
कस् त उषः कधप्रिये भुजे मर्तो अमर्त्ये ।
कं नक्षसे विभावरि ॥
वयं हि ते अमन्मह्य् आन्ताद् आ पराकात् ।
अश्वे न चित्रे अरुषि ॥
त्वं त्येभिर् आ गहि वाजेभिर् दुहितर् दिवः ।
अस्मे रयिं नि धारय ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0