भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.029

1.029.01

यच् चिद् धि सत्य सोमपा अनाशस्ता इव स्मसि ।
आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥

1.029.02

शिप्रिन् वाजानाम् पते शचीवस् तव दंसना ।
आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥

1.029.03

नि ष्वापया मिथूदृशा सस्ताम् अबुध्यमाने ।
आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥

1.029.04

ससन्तु त्या अरातयो बोधन्तु शूर रातयः ।
आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥

1.029.05

सम् इन्द्र गर्दभम् मृण नुवन्तम् पापयामुया ।
आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥

1.029.06

पताति कुण्डृणाच्या दूरं वातो वनाद् अधि ।
आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥

1.029.07

सर्वम् परिक्रोशं जहि जम्भया कृकदाश्वम् ।
आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc