ऋग्वेद · अध्याय 1.023
तीव्राः सोमास आ गह्य् आशीर्वन्तः सुता इमे ।
वायो तान् प्रस्थितान् पिब ॥
उभा देवा दिविस्पृशेन्द्रवायू हवामहे ।
अस्य सोमस्य पीतये ॥
इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये ।
सहस्राक्षा धियस् पती ॥
मित्रं वयं हवामहे वरुणं सोमपीतये ।
जज्ञाना पूतदक्षसा ॥
ऋतेन याव् ऋतावृधाव् ऋतस्य ज्योतिषस् पती ।
ता मित्रावरुणा हुवे ॥
वरुणः प्राविता भुवन् मित्रो विश्वाभिर् ऊतिभिः ।
करतां नः सुराधसः ॥
मरुत्वन्तं हवामह इन्द्रम् आ सोमपीतये ।
सजूर् गणेन तृम्पतु ॥
इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः ।
विश्वे मम श्रुता हवम् ॥
हत वृत्रं सुदानव इन्द्रेण सहसा युजा ।
मा नो दुःशंस ईशत ॥
विश्वान् देवान् हवामहे मरुतः सोमपीतये ।
उग्रा हि पृश्निमातरः ॥
जयताम् इव तन्यतुर् मरुताम् एति धृष्णुया ।
यच् छुभं याथना नरः ॥
हस्काराद् विद्युतस् पर्य् अतो जाता अवन्तु नः ।
मरुतो मृळयन्तु नः ॥
आ पूषञ् चित्रबर्हिषम् आघृणे धरुणं दिवः ।
आजा नष्टं यथा पशुम् ॥
पूषा राजानम् आघृणिर् अपगूळ्हं गुहा हितम् ।
अविन्दच् चित्रबर्हिषम् ॥
उतो स मह्यम् इन्दुभिः षड् युक्ताँ अनुसेषिधत् ।
गोभिर् यवं न चर्कृषत् ॥
अम्बयो यन्त्य् अध्वभिर् जामयो अध्वरीयताम् ।
पृञ्चतीर् मधुना पयः ॥
अमूर् या उप सूर्ये याभिर् वा सूर्यः सह ।
ता नो हिन्वन्त्व् अध्वरम् ॥
अपो देवीर् उप ह्वये यत्र गावः पिबन्ति नः ।
सिन्धुभ्यः कर्त्वं हविः ॥
अप्स्व् अ1न्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तये ।
देवा भवत वाजिनः ॥
अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा ।
अग्निं च विश्वशम्भुवम् आपश् च विश्वभेषजीः ॥
आपः पृणीत भेषजं वरूथं तन्वे3 मम ।
ज्योक् च सूर्यं दृशे ॥
इदम् आपः प्र वहत यत् किं च दुरितम् मयि ।
यद् वाहम् अभिदुद्रोह यद् वा शेप उतानृतम् ॥
आपो अद्यान्व् अचारिषं रसेन सम् अगस्महि ।
पयस्वान् अग्न आ गहि तम् मा सं सृज वर्चसा ॥
सम् माग्ने वर्चसा सृज सम् प्रजया सम् आयुषा ।
विद्युर् मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0