ऋग्वेद · अध्याय 1.022
प्रातर्युजा वि बोधयाश्विनाव् एह गच्छताम् ।
अस्य सोमस्य पीतये ॥
या सुरथा रथीतमोभा देवा दिविस्पृशा ।
अश्विना ता हवामहे ॥
या वां कशा मधुमत्य् अश्विना सूनृतावती ।
तया यज्ञम् मिमिक्षतम् ॥
नहि वाम् अस्ति दूरके यत्रा रथेन गच्छथः ।
अश्विना सोमिनो गृहम् ॥
हिरण्यपाणिम् ऊतये सवितारम् उप ह्वये ।
स चेत्ता देवता पदम् ॥
अपां नपातम् अवसे सवितारम् उप स्तुहि ।
तस्य व्रतान्य् उश्मसि ॥
विभक्तारं हवामहे वसोश् चित्रस्य राधसः ।
सवितारं नृचक्षसम् ॥
सखाय आ नि षीदत सविता स्तोम्यो नु नः ।
दाता राधांसि शुम्भति ॥
अग्ने पत्नीर् इहा वह देवानाम् उशतीर् उप ।
त्वष्टारं सोमपीतये ॥
आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम् ।
वरूत्रीं धिषणां वह ॥
अभि नो देवीर् अवसा महः शर्मणा नृपत्नीः ।
अच्छिन्नपत्राः सचन्ताम् ॥
इहेन्द्राणीम् उप ह्वये वरुणानीं स्वस्तये ।
अग्नायीं सोमपीतये ॥
मही द्यौः पृथिवी च न इमं यज्ञम् मिमिक्षताम् ।
पिपृतां नो भरीमभिः ॥
तयोर् इद् घृतवत् पयो विप्रा रिहन्ति धीतिभिः ।
गन्धर्वस्य ध्रुवे पदे ॥
स्योना पृथिवि भवानृक्षरा निवेशनी ।
यच्छा नः शर्म सप्रथः ॥
अतो देवा अवन्तु नो यतो विष्णुर् विचक्रमे ।
पृथिव्याः सप्त धामभिः ॥
इदं विष्णुर् वि चक्रमे त्रेधा नि दधे पदम् ।
समूळ्हम् अस्य पांसुरे ॥
त्रीणि पदा वि चक्रमे विष्णुर् गोपा अदाभ्यः ।
अतो धर्माणि धारयन् ॥
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
इन्द्रस्य युज्यः सखा ॥
तद् विष्णोः परमम् पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुर् आततम् ॥
तद् विप्रासो विपन्यवो जागृवांसः सम् इन्धते ।
विष्णोर् यत् परमम् पदम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0