भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.020

1.020.01

अयं देवाय जन्मने स्तोमो विप्रेभिर् आसया ।
अकारि रत्नधातमः ॥

1.020.02

य इन्द्राय वचोयुजा ततक्षुर् मनसा हरी ।
शमीभिर् यज्ञम् आशत ॥

1.020.03

तक्षन् नासत्याभ्याम् परिज्मानं सुखं रथम् ।
तक्षन् धेनुं सबर्दुघाम् ॥

1.020.04

युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः ।
ऋभवो विष्ट्य् अक्रत ॥

1.020.05

सं वो मदासो अग्मतेन्द्रेण च मरुत्वता ।
आदित्येभिश् च राजभिः ॥

1.020.06

उत त्यं चमसं नवं त्वष्टुर् देवस्य निष्कृतम् ।
अकर्त चतुरः पुनः ॥

1.020.07

ते नो रत्नानि धत्तन त्रिर् आ साप्तानि सुन्वते ।
एकम्-एकं सुशस्तिभिः ॥

1.020.08

अधारयन्त वह्नयो ऽभजन्त सुकृत्यया ।
भागं देवेषु यज्ञियम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc