भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.006

1.006.01

युञ्जन्ति ब्रध्नम् अरुषं चरन्तम् परि तस्थुषः ।
रोचन्ते रोचना दिवि ॥

1.006.02

युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे ।
शोणा धृष्णू नृवाहसा ॥

1.006.03

केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।
सम् उषद्भिर् अजायथाः ॥

1.006.04

आद् अह स्वधाम् अनु पुनर् गर्भत्वम् एरिरे ।
दधाना नाम यज्ञियम् ॥

1.006.05

वीळु चिद् आरुजत्नुभिर् गुहा चिद् इन्द्र वह्निभिः ।
अविन्द उस्रिया अनु ॥

1.006.06

देवयन्तो यथा मतिम् अच्छा विदद्वसुं गिरः ।
महाम् अनूषत श्रुतम् ॥

1.006.07

इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।
मन्दू समानवर्चसा ॥

1.006.08

अनवद्यैर् अभिद्युभिर् मखः सहस्वद् अर्चति ।
गणैर् इन्द्रस्य काम्यैः ॥

1.006.09

अतः परिज्मन्न् आ गहि दिवो वा रोचनाद् अधि ।
सम् अस्मिन्न् ऋञ्जते गिरः ॥

1.006.10

इतो वा सातिम् ईमहे दिवो वा पार्थिवाद् अधि ।
इन्द्रम् महो वा रजसः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc