भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.005

1.005.01

आ त्व् एता नि षीदतेन्द्रम् अभि प्र गायत ।
सखायः स्तोमवाहसः ॥

1.005.02

पुरूतमम् पुरूणाम् ईशानं वार्याणाम् ।
इन्द्रं सोमे सचा सुते ॥

1.005.03

स घा नो योग आ भुवत् स राये स पुरंध्याम् ।
गमद् वाजेभिर् आ स नः ॥

1.005.04

यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ।
तस्मा इन्द्राय गायत ॥

1.005.05

सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।
सोमासो दध्याशिरः ॥

1.005.06

त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ।
इन्द्र ज्यैष्ठ्याय सुक्रतो ॥

1.005.07

आ त्वा विशन्त्व् आशवः सोमास इन्द्र गिर्वणः ।
शं ते सन्तु प्रचेतसे ॥

1.005.08

त्वां स्तोमा अवीवृधन् त्वाम् उक्था शतक्रतो ।
त्वां वर्धन्तु नो गिरः ॥

1.005.09

अक्षितोतिः सनेद् इमं वाजम् इन्द्रः सहस्रिणम् ।
यस्मिन् विश्वानि पौंस्या ॥

1.005.10

मा नो मर्ता अभि द्रुहन् तनूनाम् इन्द्र गिर्वणः ।
ईशानो यवया वधम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc