ऋग्वेद · अध्याय 1.004
सुरूपकृत्नुम् ऊतये सुदुघाम् इव गोदुहे ।
जुहूमसि द्यवि-द्यवि ॥
उप नः सवना गहि सोमस्य सोमपाः पिब ।
गोदा इद् रेवतो मदः ॥
अथा ते अन्तमानां विद्याम सुमतीनाम् ।
मा नो अति ख्य आ गहि ॥
परेहि विग्रम् अस्तृतम् इन्द्रम् पृच्छा विपश्चितम् ।
यस् ते सखिभ्य आ वरम् ॥
उत ब्रुवन्तु नो निदो निर् अन्यतश् चिद् आरत ।
दधाना इन्द्र इद् दुवः ॥
उत नः सुभगाँ अरिर् वोचेयुर् दस्म कृष्टयः ।
स्यामेद् इन्द्रस्य शर्मणि ॥
एम् आशुम् आशवे भर यज्ञश्रियं नृमादनम् ।
पतयन् मन्दयत्सखम् ॥
अस्य पीत्वा शतक्रतो घनो वृत्राणाम् अभवः ।
प्रावो वाजेषु वाजिनम् ॥
तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो ।
धनानाम् इन्द्र सातये ॥
यो रायो3 ऽवनिर् महान् सुपारः सुन्वतः सखा ।
तस्मा इन्द्राय गायत ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0