भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.003

1.003.01

अश्विना यज्वरीर् इषो द्रवत्पाणी शुभस् पती ।
पुरुभुजा चनस्यतम् ॥

1.003.02

अश्विना पुरुदंससा नरा शवीरया धिया ।
धिष्ण्या वनतं गिरः ॥

1.003.03

दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः ।
आ यातं रुद्रवर्तनी ॥

1.003.04

इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ।
अण्वीभिस् तना पूतासः ॥

1.003.05

इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः ।
उप ब्रह्माणि वाघतः ॥

1.003.06

इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ।
सुते दधिष्व नश् चनः ॥

1.003.07

ओमासश् चर्षणीधृतो विश्वे देवास आ गत ।
दाश्वांसो दाशुषः सुतम् ॥

1.003.08

विश्वे देवासो अप्तुरः सुतम् आ गन्त तूर्णयः ।
उस्रा इव स्वसराणि ॥

1.003.09

विश्वे देवासो अस्रिध एहिमायासो अद्रुहः ।
मेधं जुषन्त वह्नयः ॥

1.003.10

पावका नः सरस्वती वाजेभिर् वाजिनीवती ।
यज्ञं वष्टु धियावसुः ॥

1.003.11

चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।
यज्ञं दधे सरस्वती ॥

1.003.12

महो अर्णः सरस्वती प्र चेतयति केतुना ।
धियो विश्वा वि राजति ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc