ऋग्वेद · अध्याय 1.002
वायव् आ याहि दर्शतेमे सोमा अरंकृताः ।
तेषाम् पाहि श्रुधी हवम् ॥
वाय उक्थेभिर् जरन्ते त्वाम् अच्छा जरितारः ।
सुतसोमा अहर्विदः ॥
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ।
उरूची सोमपीतये ॥
इन्द्रवायू इमे सुता उप प्रयोभिर् आ गतम् ।
इन्दवो वाम् उशन्ति हि ॥
वायव् इन्द्रश् च चेतथः सुतानां वाजिनीवसू ।
ताव् आ यातम् उप द्रवत् ॥
वायव् इन्द्रश् च सुन्वत आ यातम् उप निष्कृतम् ।
मक्ष्व् इ1त्था धिया नरा ॥
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् ।
धियं घृताचीं साधन्ता ॥
ऋतेन मित्रावरुणाव् ऋतावृधाव् ऋतस्पृशा ।
क्रतुम् बृहन्तम् आशाथे ॥
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
दक्षं दधाते अपसम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0