भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 3.37

3.37.197

न.चेद्.बुध्येत.किंच.अन्यन्.न.पश्येच्.शृणुयान्.न.च.।
न.मनस्येद्.यदा.योगम्.तदा.प्राप्तः.स.उच्यते.॥

3.37.198

हृद्यम्.एतम्.ऋषिम्.अभ्यस्येत्.पश्यन्न्.इव.यथा.श्रुति.।
प्राणान्.आयम्य.च.आसीनो.यावत्.तम्.चिन्तयेद्.ऋषिम्.॥

3.37.199

उच्छ्वसिष्यन्न्.अधो.नाभि.गमयित्वा.मनस्.तथा.।
उच्छ्वसेद्.एवम्.असकृत्.तन्मना.योगम्.उन्नयेत्.॥

3.37.200

एवम्.हि.युञ्जन्त्.सामान्यम्.न.पश्येत्.शृणुयान्.न.च.।
तदा.शनैर्.नयेच्.चेतो.हृदयाद्.ऊर्ध्वम्.एव.तु.॥

3.37.201

समौ.तु.जत्रू.च.आस्यम्.च.नासिका.नयने.भ्रुवौ.।
भ्रुवोर्.मध्ये.परम्.स्थानम्.तत्र.एतद्.धारयेत्.स्थिरम्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc