ग्रंथ पाठ
ऋग्विधान · अध्याय 3.36
3.36.192
गृहस्थ.धर्मे.वर्तेत.न्याय.क्लृप्तः.शुचि.व्रतः.।
एतम्.देवम्.चिन्तयेत.नारायणम्.अनामयम्.॥
3.36.193
अर्ध.रात्रे.त्यक्त.निद्र.उत्थाय.शुचि.वाग्.यतः.।
सम्प्रसुप्तेषु.भूतेषु.योगम्.युञ्जीत.योगवित्.॥
3.36.194
ऋज्व्.आसीनः.समे.देशे.निवाते.शब्द.वर्जिते.।
सव्यम्.पादम्.दक्षिणस्य.जानुनि.श्लेषयेत्.ततः.॥
3.36.195
संहृत्य.दक्षिणम्.पादम्.सव्ये.जानुनि.यच्छति.।
ब्रह्म.अञ्जलि.कृतः.स्वस्थो.योग.सम्मीलित.ईक्षणः.॥
3.36.196
ओम्.इत्य्.उक्त्वा.स्वम्.हृदयम्.चिन्तयेद्.अविशङ्कितः.।
तत्र.आत्मानम्.समादध्याद्.इन्द्रियाणि.मनस्.तथा.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0