भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 3.38

3.38.202

ललाट.देशे.धार्य.अथ.मूर्धानम्.गमयेत्.ततः.।
उच्छ्वसंश्.च.यथा.कालम्.नाभिम्.गत्वा.उच्छ्वसेत्.पुनः.॥

3.38.203

एतत्.परम्.स्थानम्.उक्तम्.ब्रह्मणः.परमात्मनः.।
एवम्.युक्तो.महात्मानम्.आत्मानम्.प्रतिपद्यते.॥

3.38.204

यदि.स्यात्.सुकृती.शुद्धो.यदि.वा.पापकृत्तमः.।
उपलभ्य.परम्.ब्रह्म.गतिम्.ज्ञात्वा.भवेत्.शुचिः.॥

3.38.205

सर्व.पाप.अनुबद्धश्.चेद्.बुद्ध्वा.एतत्.प्रयतो.जपेत्.।
अपि.जिज्ञासनाद्.एव.गच्छेत.परमाम्.गतिम्.॥

3.38.206

धारणा.तु.पृथक्.कार्या.धर्मेण.अनेन.नित्यशः.।
आदित्ये.अग्नौ.चन्द्रमसि.वृक्ष.अग्रेषु.च.धारयेत्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc