ऋग्विधान · अध्याय 3.35
पुरुषस्य.हरेः.सूक्तम्.स्वर्ग्यम्.धन्यम्.यशस्करम्.।
आत्म.ज्ञानम्.इदम्.पुण्यम्.योग.ज्ञानम्.इदम्.परम्.॥
फल.आहारो.भवेन्.मासम्.पश्यत्य्.आत्मानम्.आत्मनि.।
फलानि.भुक्त्वा.उपवसेन्.मासम्.अद्भिश्.च.वर्तयेत्.॥
अरण्ये.निवसेन्.नित्यम्.जपन्न्.एतम्.ऋषिम्.सदा.।
त्रिस्.त्रिषवण.कालेषु.स्नायाद्.अप्सु.समाहितः.॥
आदित्यम्.उपतिष्ठेत.सूक्तेन.अनेन.नित्यशः.।
आज्य.आहुतोर्.अनेन.एव.हुत्वा.एतम्.चिन्तयेद्.ऋषिम्.॥
ऊर्ध्वम्.मासात्.फल.आहारस्.त्रिभिर्.वर्षैर्.जयेद्.दिवम्.।
तद्भक्तस्.तन्मना.युक्तो.दश.वर्षाण्य्.अनन्य.भाक्.॥
साक्षात्.पश्यति.तम्.देवम्.नारायणम्.अनामयम्.।
ग्राह्यम्.अत्यन्त.यत्नेन.स्रष्टारम्.जगतो.अव्ययम्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0