भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.98

9.98.1

॥22॥.
-र्व्_7:4।23-
(र्व्_9,98)
अभि । नः । वाज-सातमम् । रयिम् । अर्ष । पुरु-स्पृहम् । इन्दो इति । सहस्र-भर्णसम् । तुवि-द्युम्नम् । विभ्व-सहम्

9.98.2

परि । स्यः । सुवानः । अव्ययम् । रथे । न । वर्म । अव्यत । इन्दुः । अभि । द्रूणा । हितः । हियानः । धाराभिः । अक्षारिति

9.98.3

परि । स्यः । सुवानः । अक्षारिति । इन्दुः । अव्ये । मद-च्युतः । धारा । यः । ऊर्ध्वः । अध्वरे । भ्राजा । न । एति । गव्य-युः

9.98.4

सः । हि । त्वम् । देव । शश्वते । वसु । मर्ताय । दाशुषे । इन्दो इति । सहस्रिणम् । रयिम् । शत-आत्मानम् । विवाससि

9.98.5

वयम् । ते । अस्य । वृत्र-हन् । वसो इति । वस्वः । पुरु-स्पृहः । नि । नेदिष्ठ-तमाः । इषः । स्याम । सुम्नस्य । अध्रिगो इत्य् अध्रि-गो

9.98.6

द्विः । यम् । पञ्च । स्व-यशसम् । स्वसारः । अद्रि-संहतम् । प्रियम् । इन्द्रस्य । काम्यम् । प्र-स्नापयन्ति । ऊर्मिणम्

9.98.7

॥23॥.
-र्व्_7:4।24-
परि । त्यम् । हर्यतम् । हरिम् । बभ्रुम् । पुनन्ति । वारेण । यः । देवान् । विश्वान् । इत् । परि । मदेन । सह । गच्छति

9.98.8

अस्य । वः । हि । अवसा । पान्तः । दक्ष-साधनम् । यः । सूरिषु । श्रवह् । बृहत् । दधे । स्वः । न । हर्यतः

9.98.9

सः । वाम् । यज्ञेषु । मानवी इति । इन्दुः । जनिष्ट । रोदसी इति । देवः । देवी इति । गिरि-स्थाः । अस्रेधन् । तम् । तुवि-स्वनि

9.98.10

इन्द्राय । सोम । पातवे । वृत्र-घ्ने । परि । सिच्यसे । नरे । च । दक्षिणावते । देवाय । सदन-सदे

9.98.11

ते । प्रत्नासः । वि-उष्टिषु । सोमाः । पवित्रे । अक्षरन् । अप-प्रोथन्तः । सनुतः । हुरः-चितः । प्रातरिति । तान् । अप्र-चेतसः

9.98.12

तम् । सखायः । पुरः-रुचम् । यूयम् । वयम् । च । सूरयः । अश्याम । वाज-गन्ध्यम् । सनेम । वाज-पस्त्यम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc