ऋग्वेदसंहिता, पदपाठ · अध्याय 9.97
॥10॥.
-र्व्_7:4।11-
(र्व्_9,97)
अस्य । प्रेषा । हेमना । पूयमानः । देवः । देवेभिः । सम् । अपृक्त । रसम् । सुतः । पवित्रम् । परि । एति । रेभन् । मिता-इव । सद्म । पशु-मन्ति । होता
भद्रा । वस्त्रा । समन्या । वसानः । महान् । कविः । नि-वचनानि । शंसन् । आ । वच्यस्व । चम्वोः । पूयमानः । वि-चक्षणः । जागृविः । देव-वीतौ
सम् । ओं इति । प्रियः । मृज्यते । सानौ । अव्ये । यशः-तरः । यशसाम् । क्षैतः । अस्मे इति । अभि । स्वर । धन्व । पूयमानः । यूयम् । पात । स्वस्ति-भिः । सदा । नः
प्र । गायत । अभि । अर्चाम । देवान् । सोमम् । हिनोत । महते । धनाय । स्वादुः । पवाते । अति । वारम् । अव्यम् । आ । सीदाति । कलशम् । देव-युः । नः
इन्दुः । देवानाम् । उप । सख्यम् । आयन् । सहस्र-धारः । पवते । मदाय । नृ-भिः । स्तवानः । अनु । धाम । पूर्वम् । अगन् । इन्द्रम् । महते । सौभगाय
॥11॥.
-र्व्_7:4।12-
स्तोत्रे । राये । हरिः । अर्ष । पुनानः । इन्द्रम् । मदः । गच्छतु । ते । भराय । देवैः । याहि । स-रथम् । राधः । अच्छ । यूयम् । पात । स्वस्ति-भिः । सदा । नः
प्र । काव्यम् । उशना-इव । ब्रुवाणः । देवः । देवानाम् । जनिम । विवक्ति । महि-व्रतः । शुचि-बन्धुः । पावकः । पदा । वराहः । अभि । एति । रेभन्
प्र । हंसासः । तृपलम् । मन्युम् । अच्छ । अमात् । अस्तम् । वृष-गणाः । अयासुः । आङ्गूष्यम् । पवमानम् । सखायः । दुः-मर्षम् । साकम् । प्र । वदन्ति । वाणम्
सः । रंहते । उरु-गायस्य । जूतिम् । वृथा । क्रीळन्तम् । मिमते । न । गावः । परीणसम् । कृणुते । तिग्म-शृङ्गः । दिवा । हरिः । ददृशे । नक्तम् । ऋज्रः
इन्दुः । वाजी । पवते । गो-न्योघाः । इन्द्रे । सोमः । सह । इन्वन् । मदाय । हन्ति । रक्षः । बाधते । परि । अरातीः । वरिवः । कृण्वन् । वृजनस्य । राजा
॥12॥.
-र्व्_7:4।13-
अध । धारया । मध्वा । पृचानः । तिरः । रोम । पवते । अद्रि-दुग्धः । इन्दुः । इन्द्रस्य । सख्यम् । जुषाणः । देवः । देवस्य । मत्सरः । मदाय
अभि । प्रियाणि । पवते । पुनानः । देवः । देवान् । स्वेन । रसेन । पृञ्चन् । इन्दुः । धर्माणि । ऋतु-था । वसानः । दश । क्षिपः । अव्यत । सानौ । अव्ये
वृषा । शोणः । अभि-कनिक्रदत् । गाः । नदयन् । एति । पृथिवीम् । उत । द्याम् । इन्द्रस्य-इव । वग्नुः । आ । शृण्वे । आजौ । प्र-चेतयन् । अर्षति । वाचम् । आ । इमाम्
रसाय्यः । पयसा । पिन्वमानः । ईरयन् । एषि । मधु-मन्तम् । अंशुम् । पवमानः । सम्-तनिम् । एषि । कृण्वन् । इन्द्राय । सोम । परि-सिच्यमानः
एव । पवस्व । मदिरः । मदाय । उद-ग्राभस्य । नमयन् । वध-स्नैः । परि । वर्णम् । भरमाणः । रुशन्तम् । गव्युः । नः । अर्ष । परि । सोम । सिक्तः
॥13॥.
-र्व्_7:4।14-
जुष्टवी । नः । इन्दो इति । सु-पथा । सु-गानि । उरौ । पवस्व । वरिवांसि । कृण्वन् । घना-इव । विष्वक् । दुः-इतानि । वि-घ्नन् । अधि । स्नुना । धन्व । सानौ । अव्ये
वृष्टिम् । नः । अर्ष । दिव्याम् । जिगत्नुम् । इळावतीम् । शम्-गयीम् । जीर-दानुम् । स्तुका-इव । वीता । धन्व । वि-चिन्वन् । बन्धून् । इमान् । अवरान् । इन्दो इति । वायून्
ग्रन्थिम् । न । वि । स्य । ग्रथितम् । पुनानः । ऋजुम् । च । गातुम् । वृजिनम् । च । सोम । अत्यः । न । क्रदः । हरिः । आ । सृजानः । मर्यः । देव । धन्व । पस्त्य-वान्
जुष्टः । मदाय । देव-ताते । इन्दो इति । परि । स्नुना । धन्व । सानौ । अव्ये । सहस्र-धारः । सु-रभिः । अदब्धः । परि । स्रव । वाज-सातौ । नृ-सह्ये
अरश्मानः । ये । अरथाः । अयुक्ताः । अत्यासः । न । ससृजानासः । आजौ । एते । शुक्रासः । धन्वन्ति । सोमाः । देवासः । तान् । उप । यात । पिबध्यै
॥14॥.
-र्व्_7:4।15-
एव । नः । इन्दो इति । अभि । देव-वीतिम् । परि । स्रव । नभः । अर्णः । चमूषु । सोमः । अस्मभ्यम् । काम्यम् । बृहन्तम् । रयिम् । ददातु । वीर-वन्तम् । उग्रम्
तक्षत् । यदि । मनसः । वेनतः । वाक् । ज्येष्ठस्य । वा । धर्मणि । क्षोः । अनीके । आत् । ईम् । आयन् । वरम् । आ । वावशानाः । जुष्टम् । पतिम् । कलशे । गावः । इन्दुम्
प्र । दानु-दः । दिव्यः । दानु-पिन्वः । ऋतम् । ऋताय । पवते । सु-मेधाः । धर्मा । भुवत् । वृजन्यस्य । राजा । प्र । रास्मि-भिः । दश-भिः । भारि । भूम
पवित्रेभिः । पवमानः । नृ-चक्षा । राजा । देवानाम् । उत । मर्त्यानाम् । द्विता । भुवत् । रयि-पतिः । रयीणाम् । ऋतम् । भरत् । सु-भृतम् । चारु । इन्दुः
अर्वान्-इव । श्रवसे । सातिम् । अच्छ । इन्द्रस्य । वायोः । अभि । वीतिम् । अर्ष । सः । नः । सहस्रा । बृहतीः । इषः । दाः । भव । सोम । द्रविणः-वित् । पुनानः
॥15॥.
-र्व्_7:4।16-
देव-अव्यः । नः । परि-सिच्यमानाः । क्षयम् । सु-वीरम् । धन्वन्तु । सोमाः । आयज्यवः । सु-मतिम् । विश्व-वाराः । होतारः । न । दिवि-यजः । मन्द्र-तमाः
एव । देव । देव-ताते । पवस्व । महे । सोम । प्सरसे । देव-पानः । महः । चित् । हि । स्मसि । हिताः । स-मर्ये । कृधि । सु-स्थाने । रोदसी इति । पुनानः
अश्वः । न । क्रदः । वृष-भिः । युजानः । सिंहः । न । भीमः । मनसः । जवीयान् । अर्वाचीनैः । पथि-भिः । ये । रजिष्ठाः । आ । पवस्व । सौमनसम् । नः । इन्दो इति
शतम् । धाराः । देव-जाताः । असृग्रन् । सहस्रम् । एनाः । कवयः । मृजन्ति । इन्दो इति । सनित्रम् । दिवः । आ । पवस्व । पुरः-एता । असि । महतः । धनस्य
दिवः । न । सर्गाः । अससृग्रम् । अह्नाम् । राजा । न । मित्रम् । प्र । मिनाति । धीरः । पितुः । न । पुत्रः । क्रतु-भिः । यतानः । आ । पवस्व । विशे । अस्यै । अजीतिम्
॥16॥.
-र्व्_7:4।17-
प्र । ते । धाराः । मधु-मतीः । असृग्रन् । वारान् । यत् । पूतः । अति-एषि । अव्यान् । पवमान । पवसे । धाम । गोनाम् । जज्ञानः । सूर्यम् । अपिन्वः । अर्कैः
कनिक्रदत् । अनु । पन्थाम् । ऋतस्य । शुक्रः । वि । भासि । अमृतस्य । धाम । सः । इन्द्राय । पवसे । मत्सर-वान् । हिन्वानः । वाचम् । मति-भिः । कवीनाम्
दिव्यः । सु-पर्णः । अव । चक्षि । सोम । पिन्वन् । धाराः । कर्मणा । देव-वीतौ । आ । इन्दो इति । विश । कलशम् । सोम-धानम् । क्रन्दन् । इहि । सूर्यस्य । उप । रश्मिम्
तिस्रः । वाचः । ईरयति । प्र । वह्निः । ऋतस्य । धीतिम् । ब्रह्मणः । मनीषाम् । गावः । यन्ति । गो-पतिम् । पृच्छमानाः । सोमम् । यन्ति । मतयः । वावशानाः
सोमम् । गावः । धेनवः । वावशानाः । सोमम् । विप्राः । मति-भिः । पृच्छमानाः । सोमः । सुतः । पूयते । अज्यमानः । सोमे । अर्काः । त्रि-स्तुभः । सम् । नवन्ते
॥17॥.
-र्व्_7:4।18-
एव । नः । सोम । परि-सिच्यमानः । आ । पवस्व । पूयमानः । स्वस्ति । इन्द्रम् । आ । विश । बृहता । रवेण । वर्धय । वाचम् । जनय । पुरम्-धिम्
आ । जागृविः । विप्रः । ऋता । मतीनाम् । सोमः । पुनानः । असदत् । चमूषु । सपन्ति । यम् । मिथुनासः । नि-कामाः । अध्वर्यवः । रथिरासः । सु-हस्ताः
सः । पुनानः । उप । सूरे । न । धाता । आ । उभे इति । अप्राः । रोदसी इति । वि । सः । आवर् इत्य् आवः । प्रिया । चित् । यस्य । प्रियसासः । ऊती । सः । तु । धनम् । कारिणे । न । प्र । यंसत्
सः । वर्धिता । वर्धनः । पूयमानः । सोमः । मीढवान् । अभि । नः । ज्योतिषा । आवीत् । येन । नः । पूर्वे । पितरः । पद-ज्ञाः । स्वः-विदः । अभि । गाः । अद्रिम् । उष्णन्
अक्रान् । समुद्रः । प्रथमे । वि-धर्मन् । जनयन् । प्र-जाः । भुवनस्य । राजा । वृषा । पवित्रे । अधि । सानौ । अव्ये । बृहत् । सोमः । ववृधे । सुवानः । इन्दुः
॥18॥.
-र्व्_7:4।19-
महत् । तत् । सोमः । महिषः । चकार । अपाम् । यत् । गर्भः । अवृणीत । देवान् । अदधात् । इन्द्रे । पवमानः । ओजः । अजनयत् । सूर्ये । ज्योतिः । इन्दुः
मत्सि । वायुम् । इष्टये । राधसे । च । मत्सि । मित्रावरुणा । पूयमानः । मत्सि । शर्धः । मारुतम् । मत्सि । देवान् । मत्सि । द्यावापृथिवी इति । देव । सोम
ऋजुः । पवस्व । वृजिनस्य । हन्ता । अप । अमीवाम् । बाधमानः । मृधः । च । अभि-श्रीणन् । पयः । पयसा । अभि । गोनाम् । इन्द्रस्य । त्वम् । तव । वयम् । सखायः
मध्वः । सूदम् । पवस्व । वस्वः । उत्सम् । वीरम् । च । नः । आ । पवस्व । भगम् । च । स्वदस्व । इन्द्राय । पवमानः । इन्दो इति । रयिम् । च । नः । आ । पवस्व । समुद्रात्
सोमः । सुतः । धारया । अत्यः । न । हित्वा । सिन्धुः । न । निम्नम् । अभि । वाजी । अक्षारिति । आ । योनिम् । वन्यम् । असदत् । पुनानः । सम् । इन्दुः । गोभिः । असरत् । सम् । अत्-भिः
॥19॥.
-र्व्_7:4।20-
एषः । स्यः । ते । पवते । इन्द्र । सोमः । चमूषु । धीरः । उशते । तवस्वान् । स्वः-चक्षाः । रथिरः । सत्य-शुष्मः । कामः । न । यः । देव-यताम् । असर्जि
एषः । प्रत्नेन । वयसा । पुनानः । तिरः । वर्पांसि । दुहितुः । दधानः । वसानः । शर्म । त्रि-वरूथम् । अप्-सु । होता-इव । याति । समनेषु । रेभन्
नु । नः । त्वम् । रथिरः । देव । सोम । परि । स्रव । चम्वोः । पूयमानः । अप्-सु । स्वादिष्ठः । मधु-मान् । ऋत-वा । देवः । न । यः । सविता । सत्य-मन्मा
अभि । वायुम् । वीती । अर्ष । गृणानः । अभि । मित्रावरुणा । पूयमानः । अभि । नरम् । धी-जवनम् । रथे-स्थाम् । अभि । इन्द्रम् । वृषणम् । वज्र-बाहुम्
अभि । वस्त्रा । सु-वसनानि । अर्ष । अभि । धेनूः । सु-दुघाः । पूयमानः । अभि । चन्द्रा । भर्तवे । नः । हिरण्या । अभि । अश्वान् । रथिनः । देव । सोम
॥20॥.
-र्व्_7:4।21-
अभि । नः । अर्ष । दिव्या । वसूनि । अभि । विश्वा । पार्थिवा । पूयमानः । अभि । येन । द्रविणम् । अश्नवाम । अभि । आर्षेयम् । जमदग्नि-वत् । नः
अया । पवा । पवस्व । एना । वसूनि । मांश्चत्वे । इन्दो इति । सरसि । प्र । धन्व । ब्रध्नः । चित् । अत्र । वातः । न । जूतः । पुरु-मेधः । चित् । तकवे । नरम् । दात्
उत । नः । एना । पवया । पवस्व । अधि । श्रुते । श्रवाय्यस्य । तीर्थे । षष्टिम् । सहस्रा । नैगुतः । वसूनि । वृक्षम् । न । पक्वम् । धूनवत् । रणाय
महि । इमे इति । अस्य । वृषनाम । शूषे इति । मांश्चत्वे । वा । पृशने । वा । वधत्रेइति । अस्वापयत् । नि-गुतः । स्नेहयत् । च । अप । अमित्रान् । अप । अचितः । अच । इतः
सम् । त्री । पवित्रा । वि-ततानि । एषि । अनु । एकम् । धावसि । पूयमानः । असि । भगः । असि । दात्रस्य । दाता । असि । मघ-वा । मघवत्-भ्यः । इन्दो इति
॥21॥.
-र्व्_7:4।22-
एषः । विश्व-वित् । पवते । मनीषी । सोमः । विश्वस्य । भुवनस्य । राजा । द्रप्सान् । ईरयन् । विदथेषु । इन्दुः । वि । वारम् । अव्यम् । समया । अति । याति
इन्दुम् । रिहन्ति । महिषाः । अदब्धाः । पदे । रेभन्ति । कवयः । न । गृध्राः । हिन्वन्ति । धीराः । दश-भिः । क्षिपाभिः । सम् । आञ्जते । रूपम् । अपाम् । रसेन
त्वया । वयम् । पवमानेन । सोम । भरे । कृतम् । वि । चिनुयाम । शश्वत् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0