ऋग्वेदसंहिता, पदपाठ · अध्याय 9.99
॥24॥.
-र्व्_7:4।25-
(र्व्_9,99)
आ । हर्यताय । धृष्णवे । धनुः । तन्वन्ति । पैंस्यम् । शुक्राम् । वयन्ति । असुराय । निः-निजम् । विपाम् । अग्रे । महीयुवः
अध । क्षपा । परि-कृतः । वाजान् । अभि । प्र । गाहते । यदि । विवस्वतः । धियः । हरिम् । हिन्वन्ति । यातवे
तम् । अस्य । मर्जयामसि । मदः । यः । इन्द्र-पातमः । यम् । गावः । आस-भिः । दधुः । पुरा । नूनम् । च । सूरयः
तम् । गाथया । पुराण्या । पुनानम् । अभि । अनूषत । उतो इति । कृपन्त । धीतयः । देवानाम् । नाम । बिभ्रतीः
तम् । उक्षमाणम् । अव्यये । वारे । पुनन्ति । धर्णसिम् । दूतम् । न । पूर्व-चित्तये । आ । शासते । मनीषिणः
॥25॥.
-र्व्_7:4।26-
सः । पुनानः । मदिन्-तमः । सोमः । चमूषु । सीदति । पशौ । न । रेतः । आदधत् । पतिः । वचस्यते । धियः
सः । मृज्यते । सुकर्म-भिः । देवः । देवेभ्यः । सुतः । विदे । यत् । आसु । सम्-ददिः । महीः । अपः । वि । गाहते
सुतः । इन्दो इति । पवित्रे । आ । नृ-भिः । यतः । वि । नीयसे । इन्द्राय । मत्सरिन्-तमः । चमूषु । आ । नि । सीदसि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0