ऋग्वेदसंहिता, पदपाठ · अध्याय 9.96
॥5॥.
-र्व्_7:4।6-
(र्व्_9,96)
प्र । सेनानीः । शूरः । अग्रे । रथानाम् । गव्यन् । एति । हर्षते । अस्य । सेना । भद्रान् । कृण्वन् । इन्द्र-हवान् । सखि-भ्यः । आ । सोमः । वस्त्रा । रभसानि । दत्ते
सम् । अस्य । हरिम् । हरयः । मृजन्ति । अश्व-हयैः । अस्नि-शितम् । नमः-भिः । आ । तिष्ठति । रथम् । इन्द्रस्य । सखा । विद्वान् । एन । सु-मतिम् । याति । अच्छ
सः । नः । देव । देव-ताते । पवस्व । महे । सोम । प्सरसे । इन्द्र-पानः । कृण्वन् । अपः । वर्षयन् । द्याम् । उत । इमाम् । उरोः । आ । नः । वरिवस्य । पुनानः
अजीतये । अहतये । पवस्व । स्वस्तये । सर्व-तातये । बृहते । तत् । उशन्ति । विश्वे । इमे । सखायः । तत् । अहम् । वश्मि । पवमान । सोम
सोमः । पवते । जनिता । मतीनाम् । जनिता । दिवः । जनिता । पृथिव्याः । जनिता । अग्नेः । जनिता । सूर्यस्य । जनिता । इन्द्रस्य । जनिता । उत । विष्णोः
॥6॥.
-र्व्_7:4।7-
ब्रह्मा । देवानाम् । पद-वीः । कवीनाम् । ऋषिः । विप्राणाम् । महिषः । मृगाणाम् । श्येनः । गृध्राणाम् । स्व-धितिः । वनानाम् । सोमः । पवित्रम् । अति । एति । रेभन्
प्र । अवीविपत् । वाचः । ऊर्मिम् । न । सिन्धुः । गिरः । सोमः । पवमानः । मनीषाः । अन्तरिति । पश्यन् । वृजना । इमा । अवराणि । आ । तिष्ठति । वृषभः । गोषु । जानन्
सः । मत्सरः । पृत्-सु । वन्वन् । अवातः । सहस्र-रेताः । अभि । वाजम् । अर्ष । इन्द्राय । इन्दो इति । पवमानः । मनीषी । अंशोः । ऊर्मिम् । ईरय । गाः । इषण्यन्
परि । प्रियः । कलशे । देव-वातः । इन्द्राय । सोमः । रण्यः । मदाय । सहस्र-धारः । शत-वाजः । इन्दुः । वाजी । न । सप्तिः । समना । जिगाति
सः । पूर्व्यः । वसु-वित् । जायमानः । मृजानः । अप्-सु । दुदुहानः । अद्रौ । अभिशस्ति-पाः । भुवनस्य । राजा । विदत् । गातुम् । ब्रह्मणे । पूयमानः
॥7॥.
-र्व्_7:4।8-
त्वया । हि । नः । पितरः । सोम । पूर्वे । कर्माणि । चक्रुः । पवमान । धीराः । वन्वन् । अवातः । परि-धीन् । अप । ऊर्णु । वीरे-भिः । अश्वैः । मघ-वा । भव । नः
यथा । अपवथाः । मनवे । वयः-धाः । अमित्र-हा । वरिवः-वित् । हविष्मान् । एव । पवस्व । द्रविणम् । दधानः । इन्द्रे । सम् । तिष्ठ । जनय । आयुधानि
पवस्व । सोम । मधु-मान् । ऋत-वा । अपः । वसानः । अधि । सानौ । अव्ये । अव । द्रोणानि । घृत-वन्ति । सीद । मदिन्-तमः । मत्सरः । इन्द्र-पानः
वृष्टिम् । दिवः । शत-धारः । पवस्व । सहस्र-साः । वाज-युः । देव-वीतौ । सम् । सिन्धु-भिः । कलशे । वावशानः । सम् । उस्रियाभिः । प्र-तिरन् । नः । आयुः
एषः । स्यः । सोमः । मति-भिः । पुनानः । अत्यः । न । वाजी । तरति । इत् । अरातीः । पयः । न । दुग्धम् । अदितेः । इषिरम् । उरु-इव । गातुः । सु-यमः । न । वोळ्हा
॥8॥.
-र्व्_7:4।9-
सु-आयुधः । सोतृ-भिः । पूयमानः । अभि । अर्ष । गुह्यम् । चारु । नाम । अभि । वाजम् । सप्तिः-इव । श्रवस्या । अभि । वायुम् । अभि । गाः । देव । सोम
शिशुम् । जज्ञानम् । हर्यतम् । मृजन्ति । शुम्भन्ति । वह्निम् । मरुतः । गणेन । कविः । गीः-भिः । काव्येन । कविः । सन् । सोमः । पवित्रम् । अति । एति । रेभन्
ऋषि-मनाः । यः । ऋषि-कृत् । स्वः-साः । सहस्र-नीथः । पद-वीः । कवीनाम् । तृतीयम् । धाम । महिषः । सिसासन् । सोमः । वि-राजम् । अनु । राजति । स्तुप्
चमू-सत् । श्येनः । शकुनः । वि-भृत्वा । गो-विन्दुः । द्रप्सः । आयुधानि । बिभ्रत् । अपाम् । ऊर्मिम् । सचमानः । समुद्रम् । तुरीयम् । धाम । महिषः । विवक्ति
मर्यः । न । शुभ्रः । तन्वम् । मृजानः । अत्यः । न । सृत्वा । सनये । धनानाम् । वृषा-इव । यूथा । परि । कोशम् । अर्षन् । कनिक्रदत् । चम्वोः । आ । विवेश
॥9॥.
-र्व्_7:4।10-
पवस्व । इन्दो इति । पवमानः । महः-भिः । कनिक्रदत् । परि । वाराणि । अर्ष । क्रीळन् । चम्वोः । आ । विश । पूयमानः । इन्द्रम् । ते । रसः । मदिरः । ममत्तु
प्र । अस्य । धाराः । बृहतीः । असृग्रन् । अक्तः । गोभिः । कलशान् । आ । विवेश । साम । कृण्वन् । सामन्यः । विपः-चित् । क्रन्दन् । एति । अभि । सख्युः । न । जामिम्
अप-घ्नन् । एषि । पवमान । शत्रून् । प्रियाम् । न । जारः । अभि-गीतः । इन्दुः । सीदन् । वनेषु । शकुनः । न । पत्वा । सोमः । पुनानः । कलशेषु । सत्ता
आ । ते । रुचः । पवमानस्य । सोम । योषा-इव । यन्ति । सु-दुघाः । सु-धाराः । हरिः । आनीतः । पुरु-वारः । अप्-सु । अचिक्रदत् । कलशे । देव-यूनाम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0