भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.86

9.86.1

॥11॥.
-र्व्_7:3।12-
(र्व्_9,86)
प्र । ते । आशवः । पवमान । धी-जवः । मदाः । अर्षन्ति । रघुजाः-इव । त्मना । दिव्याः । सु-पर्णाः । मधु-मन्तः । इन्दवः । मदिन्-तमासः । परि । कोशम् । आसते

9.86.2

प्र । ते । मदासः । मदिरासः । आशवः । असृक्षत । रथ्यासः । यथा । पृथक् । धेनुः । न । वत्सम् । पयसा । अभि । वज्रिणम् । इन्द्रम् । इन्दवः । मधु-मन्तः । ऊर्मयः

9.86.3

अत्यः । न । हियानः । अभि । वाजम् । अर्ष । स्वः-वित् । कोशम् । दिवः । अद्रि-मातरम् । वृषा । पवित्रे । अधि । सानौ । अव्यये । सोमः । पुनानः । इन्द्रियाय । धायसे

9.86.4

प्र । ते । आश्विनीः । पवमान । धी-जुवः । दिव्याः । असृग्रन् । पयसा । धरीमणि । प्र । अन्तः । ऋषयः । स्थाविरीः । असृक्षत । ये । त्वा । मृजन्ति । ऋषि-साण । वेधसः

9.86.5

विश्वा । धामानि । विश्व-चक्षः । ऋभ्वसः । प्र-भोः । ते । सतः । परि । यन्ति । केतवः । वि-आनशिः । पवसे । सोम । धर्म-भिः । पतिः । विश्वस्य । भुवनस्य । राजसि

9.86.6

॥12॥.
-र्व्_7:3।13-
उभयतः । पवमानस्य । रश्मयः । ध्रुवस्य । सतः । परि । यन्ति । केतवः । यदि । पवित्रे । अधि । मृज्यते । हरिः । सत्ता । नि । योना । कलशेषु । सीदति

9.86.7

यज्ञस्य । केतुः । पवते । सु-अध्वरः । सोमः । देवानाम् । उप । याति । निः-कृतम् । सहस्र-धारः । परि । कोशम् । अर्षति । वृषा । पवित्रम् । अति । एति । रोरुवत्

9.86.8

राजा । समुद्रम् । नद्यः । वि । गाहते । अपाम् । ऊर्मिम् । सचते । सिन्धुषु । श्रितः । अधि । अस्थाट् । सानु । पवमानः । अव्ययम् । नाभा । पृथिव्याः । धरुणः । महः । दिवः

9.86.9

दिवः । न । सानु । स्तनयन् । अचिक्रदत् । द्यौः । च । यस्य । पृथिवी । च । धर्म-भिः । इन्द्रस्य । सख्यम् । पवते । वि-वेविदत् । सोमः । पुनानः । कलशेषु । सीदति

9.86.10

ज्योतिः । यज्ञस्य । पवते । मधु । प्रियम् । पिता । देवानाम् । जनिता । विभु-वसुः । दधाति । रत्नम् । स्वधयोः । अपीच्यम् । मदिन्-तमः । मत्सरः । इन्द्रियः । रसः

9.86.11

॥13॥.
-र्व्_7:3।14-
अभि-क्रन्दन् । कलशम् । वाजी । अर्षति । पतिः । दिवः । शत-धारः । वि-चक्षणः । हरिः । मित्रस्य । सदनेषु । सीदति । मर्मृजानः । अवि-भिः । सिन्धु-भिः । वृषा

9.86.12

अग्रे । सिन्धूनाम् । पवमानः । अर्षति । अग्रे । वाचः । अग्रियः । गोषु । गच्छति । अग्रे । वाजस्य । भजते । महाधनम् । सु-आयुधः । सोतृ-भिः । पूयते । वृषा

9.86.13

अयम् । मत-वान् । शकुनः । यथा । हितः । अव्ये । ससार । पवमानः । ऊर्मिणा । तव । क्रत्वा । रोदसी इति । अन्तरा । कवे । शुचिः । धिया । पवते । सोम । इन्द्र । ते

9.86.14

द्रापिम् । वसानः । यजतः । दिवि-स्पृशम् । अन्तरिक्ष-प्राः । भुवनेषु । अर्पितः । स्वः । जज्ञानः । नभसा । अभि । अक्रमीत् । प्रत्नम् । अस्य । पितरम् । आ । विवासति

9.86.15

सः । अस्य । विशे । महि । शर्म । यच्छति । यः । अस्य । धाम । प्रथमम् । वि-आनशे । पदम् । यत् । अस्य । परमे । वि-ओमनि । अतः । विश्वाः । अभि । सम् । याति । सम्-यतः

9.86.16

॥14॥.
-र्व्_7:3।15-
प्रो इति । अयासीत् । इन्दुः । इन्द्रस्य । निः-कृतम् । सखा । सख्युः । न । प्र । मिनाति । सम्-गिरम् । मर्यः-इव । युवति-भिः । सम् । अर्षति । सोमः । कलशे । शत-याम्ना । पथा

9.86.17

प्र । वः । धियः । मन्द्र-युवः । विपन्युवः । पनस्युवः । सम्-वसनेषु । अक्रमुः । सोमम् । मनीषाः । अभि । अनूषत । स्तुभः । अभि । धेनवः । पयसा । ईम् । अशिश्रयुः

9.86.18

आ । नः । सोम । सम्-यतम् । पिप्युषीम् । इषम् । इन्दो इति । पवस्व । पवमानः । अस्रिधम् । या । नः । दोहते । त्रिः । अहन् । असश्चुषी । क्षु-मत् । वाज-वत् । मधु-मत् । सु-वीर्यम्

9.86.19

वृषा । मतीनाम् । पवते । वि-चक्षणः । सोमः । अह्नः । प्र-तरीता । उषसः । दिवः । क्राणा । सिन्धूनाम् । कलशान् । अवीवशत् । इन्द्रस्य । हार्दि । आ-विशन् । मनीषि-भिः

9.86.20

मनीषि-भिः । पवते । पूर्व्यः । कविः । नृ-भिः । यतः । परि । कोशान् । अचिक्रदत् । त्रितस्य । नाम । जनयन् । मधु । क्षरत् । इन्द्रस्य । वायोः । सख्याय । कर्तवे

9.86.21

॥15॥.
-र्व्_7:3।16-
अयम् । पुनानः । उषसः । वि । रोचयत् । अयम् । सिन्धु-भ्यः । अभवत् । ओं इति । लोक-कृत् । अयम् । त्रिः । सप्त । दुदुहानः । आशिरम् । सोमः । हृदे । पवते । चारु । मत्सरः

9.86.22

पवस्व । सोम । दिव्येषु । धाम-सु । सृजानः । इन्दो इति । कलशे । पवित्रे । आ । सीदन् । इन्द्रस्य । जठरे । कनिक्रदत् । नृ-भिः । यतः । सूर्यम् । आ । अरोहयः । दिवि

9.86.23

अद्रि-भिः । सुतः । पवसे । पवित्रे । आ । इन्दो इति । इन्द्रस्य । जठरेषु । आ-विशन् । त्वम् । नृ-चक्षाः । अभवः । वि-चक्षण । सोम । गोत्रम् । अङ्गिरः-भ्यः । अवृणोः । अप

9.86.24

त्वाम् । सोम । पवमानम् । सु-आध्यः । अनु । विप्रासः । अमदन् । अवस्यवः । त्वाम् । सु-पर्णः । आ । अभरत् । दिवः । परि । इन्दो इति । विश्वाभिः । मति-भिः । परि-कृतम्

9.86.25

अव्ये । पुनानम् । परि । वारे । ऊर्मिणा । हरिम् । नवन्ते । अभि । सप्त । धेनवः । अपाम् । उप-स्थे । अधि । आयवः । कविम् । ऋतस्य । योना । महिषाः । अहेषत

9.86.26

॥16॥.
-र्व्_7:3।17-
इन्दुः । पुनानः । अति । गाहते । मृधः । विश्वानि । कृण्वन् । सु-पथानि । यज्यवे । गाः । कृण्वानः । निः-निजम् । हर्यतः । कविः । अत्यः । न । क्रीळन् । परि । वारम् । अर्षति

9.86.27

असश्चतः । शत-धाराः । अभि-श्रियः । हरिम् । नवन्ते । अव । ताः । उदन्युवः । क्षिपः । मृजन्ति । परि । गोभिः । आवृतम् । तृतीये । पृष्ठे । अधि । रोचने । दिवः

9.86.28

तव । इमाः । प्र-जाः । दिव्यस्य । रेतसः । त्वम् । विश्वस्य । भुवनस्य । राजसि । अथ । इदम् । विश्वम् । पवमान । ते । वशे । त्वम् । इन्दो इति । प्रथमः । धाम-धाः । असि

9.86.29

त्वम् । समुद्रः । असि । विश्व-वित् । कवे । तव । इमाः । पञ्च । प्र-दिशः । वि-धर्मणि । त्वम् । द्याम् । च । पृथिवीम् । च । अति । जभ्रिषे । तव । ज्योतींषि । पवमान । सूर्यः

9.86.30

त्वम् । पवित्रे । रजसः । वि-धर्मणि । देवेभ्यः । सोम । पवमान । पूयसे । त्वाम् । उशिजः । प्रथमाः । अगृभ्णत । तुभ्य । इमा । विश्वा । भुवनानि । येमिरे

9.86.31

॥17॥.
-र्व्_7:3।18-
प्र । रेभः । एति । अति । वारम् । अव्ययम् । वृषा । वनेषु । अव । चक्रदत् । हरिः । सम् । धीतयः । वावशानाः । अनूषत । शिशुम् । रिहन्ति । मतयः । पनिप्नतम्

9.86.32

सः । सूर्यस्य । रश्मि-भिः । परि । व्यत । तन्तुम् । तन्वानः । त्रि-वृतम् । यथा । विदे । नयन् । ऋतस्य । प्र-शिषः । नवीयसीः । पतिः । जनीनाम् । उप । याति । निः-कृतम्

9.86.33

राजा । सिन्धूनाम् । पवते । पतिः । दिवः । ऋतस्य । याति । पथि-भिः । कनिक्रदत् । सहस्र-धारः । परि । सिच्यते । हरिः । पुनानः । वाचम् । जनयन् । उप-वसुः

9.86.34

पवमान । महि । अर्णः । वि । धावसि । सूरः । न । चित्रः । अव्ययानि । पव्यया । गभस्ति-पूतः । नृ-भिः । अद्रि-भिः । सुतः । महे । वाजाय । धन्याय । धन्वसि

9.86.35

इषम् । ऊर्जम् । पवमान । अभि । अर्षसि । श्येनः । न । वंसु । कलशेषु । सीदसि । इन्द्राय । मद्वा । मद्यः । मदः । सुतः । दिवः । विष्टम्भः । उपमः । वि-चक्षणः

9.86.36

॥18॥.
-र्व्_7:3।19-
सप्त । स्वसारः । अभि । मातरः । शिशुम् । नवम् । जज्ञानम् । जेन्यम् । विपः-चितम् । अपाम् । गन्धर्वम् । दिव्यम् । नृ-चक्षसम् । सोमम् । विश्वस्य । भुवनस्य । राजसे

9.86.37

ईशानः । इमा । भुवनानि । वि । ईयसे । युजानः । इन्दो इति । हरितः । सु-पर्ण्यः । ताः । ते । क्षरन्तु । मधु-मत् । घृतम् । पयः । तव । व्रते । सोम । तिष्ठन्तु । कृष्टयः

9.86.38

त्वम् । नृ-चक्षाः । असि । सोम । विश्वतः । पवमान । वृषभ । ता । वि । धावसि । सः । नः । पवस्व । वसु-मत् । हिरण्य-वत् । वयम् । स्याम । भुवनेषु । जीवसे

9.86.39

गो-वित् । पवस्व । वसु-वित् । हिरण्य-वित् । रेतः-धाः । इन्दो इति । भुवनेषु । अर्पितः । त्वम् । सु-वीरः । असि । सोम । विश्व-वित् । तम् । त्वा । विप्राः । उप । गिरा । उमे । आसते

9.86.40

उत् । मध्वः । ऊर्मिः । वननाः । अतिस्थिपत् । अपः । वसानः । महिषः । वि । गाहते । राजा । पवित्र-रथः । वाजम् । आ । अरुहत् । सहस्र-भृष्टिः । जयति । श्रवः । बृहत्

9.86.41

॥19॥.
-र्व्_7:3।20-
सः । भन्दनाः । उत् । इयर्ति । प्रजावतीः । विश्व-आयुः । विश्वाः । सु-भराः । अहः-दिवि । ब्रह्म । प्रजावत् । रयिम् । अश्व-पस्त्यम् । पीतः । इन्दो इति । इन्द्रम् । अस्मभ्यम् । याचतात्

9.86.42

सः । अग्रे । अह्नाम् । हरिः । हर्यतः । मदः । प्र । चेतसा । चेतयते । अनु । द्यु-भिः । द्वा । जना । यातयन् । अन्तः । ईयते । नरा । च । शंसम् । दैव्यम् । च । धर्तरि

9.86.43

अञ्जते । वि । अञ्जते । सम् । अञ्जते । क्रतुम् । रिहन्ति । मधुना । अभि । अञ्जते । सिन्धोः । उत्-श्वासे । पतयन्तम् । उक्षणम् । हिरण्य-पावाः । पशुम् । आसु । गृभ्णते

9.86.44

विपः-चिते । पवमानाय । गायत । मही । न । धारा । अति । अन्धः । अर्षति । अहिः । न । जूणाम् । अति । सर्पति । त्वचम् । अत्यः । न । क्रीळन् । असरत् । वृषा । हरिः

9.86.45

अग्रे-गः । राजा । आप्यः । तविष्यते । वि-मानः । अह्नाम् । भुवनेषु । अर्पितः । हरिः । घृत-स्नुः । सु-दृशीकः । अर्णवः । ज्योतिः-रथः । पवते । राये । ओक्यः

9.86.46

॥20॥.
-र्व्_7:3।21-
असर्जि । स्कम्भः । दिवः । उत्-यतः । मदः । परि । त्रि-धातुः । भुवनानि । अर्षति । अंशुम् । रिहन्ति । मतयः । पनिप्नतम् । गिरा । यदि । निः-निजम् । ऋग्मिणः । ययुः

9.86.47

प्र । ते । धाराः । अति । अण्वानि । मेष्यः । पुनानस्य । सम्-यतः । यन्ति । रंहयः । यत् । गो-भिः । इन्दो इति । चम्वोः । सम्-अज्यसे । आ । सुवानः । सोम । कलशेषु । सीदसि

9.86.48

पवस्व । सोम । क्रतु-वित् । नः । उक्थ्यः । अव्यः । वारे । परि । धाव । मधु । प्रियम् । जहि । विश्वान् । रक्षसः । इन्दो इति । अत्रिणः । बृहत् । वदेम । विदथे । सु-वीराः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc