ऋग्वेदसंहिता, पदपाठ · अध्याय 9.85
॥9॥.
-र्व्_7:3।10-
(र्व्_9,85)
इन्द्राय । सोम । सु-सुतः । परि । स्रव । अप । अमीवा । भवतु । रक्षसा । सह । मा । ते । रसस्य । मत्सत । द्वयाविनः । द्रविणस्वन्तः । इह । सन्तु । इन्दवः
अस्मान् । स-मर्ये । पवमान । चोदय । दक्षः । देवानाम् । असि । हि । प्रियः । मदः । जहि । शत्रून् । अभि । आ । भन्दनायतः । पिब । इन्द्र । सोमम् । अव । नः । मृधः । जहि
अदब्धः । इन्दो इति । पवसे । मदिन्-तमः । आत्मा । इन्द्रस्य । भवसि । धासिः । उत्-तमः । अभि । स्वरन्ति । बहवः । मनीषिणः । राजानम् । अस्य । भुवनस्य । निंसते
सहस्र-नीथः । शत-धारः । अद्भुतः । इन्द्राय । इन्दुः । पवते । काम्यम् । मधु । जयन् । क्षेत्रम् । अभि । अर्ष । जयन् । अप । उरुम् । नः । गातुम् । कृणु । सोम । मीढवः
कनिक्रदत् । कलशे । गोभिः । अज्यसे । वि । अव्ययम् । समया । वारम् । अर्षसि । मर्मृज्यमानः । अत्यः । न । सानसिः । इन्द्रस्य । सोम । जठरे । सम् । अक्षरः
स्वादुः । पवस्व । दिव्याय । जन्मने । स्वादुः । इन्द्राय । सुहवीतु-नाम्ने । स्वादुः । मित्राय । वरुणाय । वायवे । बृहस्पतये । मधु-मान् । अदाभ्यः
॥10॥.
-र्व्_7:3।11-
अत्यम् । मृजन्ति । कलशे । दश । क्षिपः । प्र । विप्राणाम् । मतयः । वाचः । ईरते । पवमानाः । अभि । अर्षन्ति । सु-स्तुतिम् । आ । इन्द्रम् । विशन्ति । मदिरासः । इन्दवः
पवमानः । अभि । अर्ष । सु-वीर्यम् । उर्वीम् । गव्यूतिम् । महि । शर्म । स-प्रथः । माकिः । नः । अस्य । परि-सूतिः । ईशत । इन्दो इति । जयेम । त्वया । धनम्-धनम्
अधि । द्याम् । अस्थात् । वृषभः । वि-चक्षणः । अरूरुचात् । वि । दिवः । रोचना । कविः । राजा । पवित्रम् । अति । एति । रोरुवत् । दिवः । पीयूषम् । दुहते । नृ-चक्षसः
दिवः । नाके । मधु-जिह्वाः । असश्चतः । वेनाः । दुहन्ति । उक्षणम् । गिरि-स्थाम् । अप्-सु । द्रप्सम् । ववृधानम् । समुद्रे । आ । सिन्धोः । ऊर्मा । मधु-मन्तम् । पवित्रे । आ
नाके । सु-पर्णम् । उपपप्ति-वांसम् । गिरः । वेनानाम् । अकृपन्त । पूर्वीः । शिशुम् । रिहन्ति । मतयः । पनिप्नतम् । हिरण्ययम् । शकुनम् । क्षामणि । स्थाम्
ऊर्ध्वः । गन्धर्वः । अधि । नाके । अस्थात् । विश्वा । रूपा । प्र्चति-चक्षाणः । अस्य । भानुः । शुक्रेण । शोचिषा । वि । अद्यौत् । प्र । अरूरुचत् । रोदसी इति । मातरा । शुचिः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0