ऋग्वेदसंहिता, पदपाठ · अध्याय 9.87
॥21॥.
-र्व्_7:3।22-
(र्व्_9,87)
प्र । तु । द्रव । परि । कोशम् । नि । सीद । नृ-भिः । पुनानः । अभि । वाजम् । अर्ष । अश्वम् । न । त्वा । वाजिनम् । मर्जयन्तः । अच्छ । बर्हिः । रशनाभिः । नयन्ति
सु-आयुधः । पवते । देवः । इन्दुः । अशस्ति-हा । वृजनम् । रक्षमाणः । पिता । देवानाम् । जनिता । सु-दक्षः । विष्टम्भः । दिवः । धरुणः । पृथिव्याः
ऋषिः । विप्रः । पुरः-एता । जनानाम् । ऋभुः । धीरः । उशना । काव्येन । सः । चित् । विवेद । नि-हितम् । यत् । आसाम् । अपीच्यम् । गुह्यम् । नाम । गोनाम्
एषः । स्यः । ते । मधु-मान् । इन्द्र । सोमः । वृषा । वृष्णे । परि । पवित्रे । अक्षारिति । सहस्र-साः । शत-साः । भूरि-दावा । शश्वत्-तमम् । बर्हिः । आ । वाजी । अस्थात्
एते । सोमाः । अभि । गव्या । सहस्रा । महे । वाजाय । अमृताय । श्रवांसि । पवित्रेभिः । पवमानाः । असृग्रन् । श्रवस्यवः । न । पृतनाजः । अत्याः
॥22॥.
-र्व्_7:3।23-
परि । हि । स्म । पुरु-हूतः । जनानाम् । विश्वा । असरत् । भोजना । पूयमानः । अथ । आ । भर । श्येन-भृत । प्रयांसि । रयिम् । तुञ्जानः । अभि । वाजम् । अर्ष
एषः । सिवानः । परि । सोमः । पवित्रे । सर्गः । न । सृष्टः । अदधावत् । अर्वा । तिग्मे । शिशानः । महिषः । न । शृङ्गे । गाः । गव्यन् । अभि । शूरः । न । सत्वा
एषा । आ । ययौ । परमात् । अन्तः । अद्रेः । कू-चित् । सतीः । ऊर्वे । गाः । विवेद । दिवः । न । वि-द्युत् । स्तनयन्ती । अभ्रैः । सोमस्य । ते । पवते । इन्द्र । धारा
उत । स्म । राशिम् । परि । यासि । गोनाम् । इन्द्रेण । सोम । स-रथम् । पुनानः । पूर्वीः । इषः । बृहतीः । जीरदानो इतिजीर-दानो । शिक्ष । सची-वः । तव । ताः । उप-स्तुत्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0