भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.64

9.64.1

॥35॥.
-र्व्_7:1।36-
(र्व्_9,64)
वृषा । सोम । द्यु-मान् । असि । वृषा । देव । वृष-व्रतः । वृषा । धर्माणि । दधिषे

9.64.2

वृष्णः । ते । वृष्ण्यम् । शवः । वृषा । वनम् । वृषा । मदः । सत्यम् । वृषन् । वृषा । इत् । असि

9.64.3

अश्वः । न । चक्रदः । वृषा । सम् । गाः । इन्दो इति । सम् । अर्वतः । वि । नः । राये । दुरः । वृधि

9.64.4

असृक्षत । प्र । वाजिनः । गव्या । सोमासः । अश्व-या । शुक्रासः । वीर-या । आशवः

9.64.5

शुम्भमानाः । ऋतयु-भिः । मृज्यमानाः । गभस्त्योः । पवन्ते । वारे । अव्यये

9.64.6

॥36॥.
-र्व्_7:1।37-
ते । विश्वा । दाशुषे । वसु । सोमाः । दिव्यानि । पार्थिवा । पवन्ताम् । आ । अन्तरिक्ष्या

9.64.7

पवमानस्य । विश्व-वित् । प्र । ते । सर्गाः । असृक्षत । सूर्यस्य-इव । न । रश्मयः

9.64.8

केतुम् । कृण्वन् । दिवः । परि । विश्वा । रूपा । अभि । आर्षसि । समुद्रः । सोम । पिन्वसे

9.64.9

हिन्वानः । वाचम् । इष्यसि । पवमान । वि-धर्मणि । अक्रान् । देवः । न । सूर्यः

9.64.10

इन्दुः । पविष्ट । चेतनः । प्रियः । कवीनाम् । मती । सृजत् । अश्वम् । रथीः-इव

9.64.11

॥37॥.
-र्व्_7:1।38-
ऊर्मिः । यः । ते । पवित्रे । आ । दव-अवीः । परि-अक्षरत् । सीदन् । ऋतस्य । योनिम् । आ

9.64.12

सः । नः । अर्ष । पवित्रे । आ । मदः । यः । देव-वीतमः । इन्दो इति । इन्द्राय । पीतये

9.64.13

इषे । पवस्व । धारया । मृज्यमानः । मनीषि-भिः । इन्दो इति । रुचा । अभि । गाः । इहि

9.64.14

पुनानः । वरिवः । कृधि । ऊर्जम् । जनाय । गिर्वणः । हरे । सृजानः । आशिरम्

9.64.15

पुनानः । देव-वीतये । इन्द्रस्य । याहि । निः-कृतम् । द्युतानः । वाजि-भिः । यतः

9.64.16

॥38॥.
-र्व्_7:1।39-
प्र । हिन्वानासः । इन्दवः । अच्छ । समुद्रम् । आशवः । धिया । जूताः । असृक्षत

9.64.17

मर्मृजानासः । आयवः । वृथा । समुद्रम् । इन्दवः । अग्मन् । ऋतस्य । योनिम् । आ

9.64.18

परि । नः । याहि । अस्म-युः । विश्वा । वसूनि । ओजसा । पाहि । नः । शर्म । वीर-वत्

9.64.19

मिमाति । वह्निः । एतशः । पदम् । युजानः । ऋक्व-भिः । प्र । यत् । समुद्रे । आहितः

9.64.20

आ । यत् । योनिम् । हिरण्ययम् । आशुः । ऋतस्य । सीदति । जहाति । अप्र-चेतसः

9.64.21

॥39॥.
-र्व्_7:1।40-
अभि । वेनाः । अनूषत । इयक्षन्ति । प्र-चेतसः । मज्जन्ति । अवि-चेतसः

9.64.22

इन्द्राय । इन्दो इति । मरुत्वते । पवस्व । मधुमत्-तमः । ऋतस्य । योनिम् । आसदम्

9.64.23

तम् । त्वा । विप्राः । वचः-विदः । परि । कृण्वन्ति । वेधसः । सम् । त्वा । मृजन्ति । आयवः

9.64.24

रसम् । ते । मित्रः । अर्यमा । पिबन्ति । वरुणः । कवे । पवमानस्य । मरुतः

9.64.25

त्वम् । सोम । विपः-चितम् । पुनानः । वाचम् । इष्यसि । इन्दो इति । सहस्र-भर्णसम्

9.64.26

॥40॥.
-र्व्_7:1।41-
उतो इति । सहस्र-भर्णसम् । वाचम् । सोम । मखस्युवम् । पुनानः । इन्दो इति । आ । भर

9.64.27

पुनानः । इन्दो इति । एषाम् । पुरु-हूत । जनानाम् । प्रियः । समुद्रम् । आ । विश

9.64.28

दविद्युतत्या । रुचा । परि-स्तोभन्त्या । कृपा । सोमाः । शुक्राः । गो-आशिरः

9.64.29

हिन्वानः । हेतृ-भिः । यतः । आ । वाजम् । वाजी । अक्रमीत् । सीदन्तः । वनुषः । यथा

9.64.30

ऋधक् । सोम । स्वस्तये । सम्-जग्मानः । दिवः । कविः । पवस्व । सूर्यः । दृशे

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc